Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 454
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४१५ 1 " किम् ? वितीर्णम् | तीति किम् ? सुदत्तम् ॥ अपील्वादेर्वहे ||८९|| पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीवहम् मुनीवहम् । अपील्वादेरिति किम् ? पीलुवहम्, दारुवहम् ॥ शुनः ॥ ९० ॥ अस्योत्तरपदे दीर्घः स्यात् । श्वादन्तः, श्वावराहम् । एकादशषोडशषोडन् षोढा षड्ढा ॥ ९१ ॥ एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकादश, षोडश, षट्दन्ता अस्य षोडन्, षोढा, षड्ढा ॥ द्विश्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीबहुव्रीहौ ।। ९२ ।। एषां यथासत्यमेते प्राक्शतात्स न पील्वादिस्तस्य वहे । नामिन इति वर्तते । अत्र वहशब्दोऽजन्तो 1 हान्तश्च गृह्यते, वहतीति वहं, अजित्यच्प्रत्ययः, ऋषीणां वहं ऋषीवहम्, एवं मुनीवहमित्यादावजन्तो वहशब्दः, हान्ते तु वहशब्दे ऋषीवहः मुनीवहः इति लिङ्गविशेषाद्विशेषो वाच्यः ॥ शुनः । शुनो दन्तः श्वादन्तः । श्वा च वराहश्च श्वावराहम् || एकश्च दश चैकादश, अत्रैकस्य दशशब्दे उत्तरपदे दीर्घः । षडुत्तरा दश षोडश, अत्र षषोऽन्तस्य उत्वम् उत्तरपददकारस्य डकारः । षड् दन्ताऽस्य षोडन्, अत्र दन्तशब्दस्य दत्रादेशे कृते दस्य डत्वम्, षषोऽन्तस्य उत्वम्, षड्भिः प्रकारैः षोढा षहा, अत्र धाप्रत्यये षषोऽन्तस्य वोत्वम्, धकारस्य तु नित्यं ढत्वम् । द्विश्व त्रिश्वाष्टा च तेषाम्, द्वाच त्रयश्चाष्टा च प्राकू, शतात्, अशीतिश्व बहुव्रीहिश्व ततो नन् समासस्तस्मिन् । द्वाभ्यामधिका दश, द्वौ च दश च वा दादश, अनेन द्विशब्दस्य द्वाssदेशः, एवं त्रयो विंशतिरित्यत्र त्रिशब्दस्य त्रयसादेशः, अष्टात्रिंशदित्यत्राष्टन्शब्दस्याष्टाssदेश:, अत्र सर्वत्रोत्तरपदं सङ्ख्यायां वर्तते, प्राक्शतादित्युक्तः, अनशीतीतिपर्युदासेनाशीतेः सङ्ख्यायाः प्रतिषेधाया । द्विशतं त्रिशतमित्यादौ तु शतशब्द एव वर्तते । अष्टसहस्रमित्यत्र तु सहस्रशब्दः शतो

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470