Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 455
________________ ४१६ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य छ्यायामुत्तरपदे स्युः, न त्वशीती बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् । प्राक्शतादिति किम् ! द्विशतम् , त्रिशतम् , अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ! व्यशीतिः, द्वित्राः ।। चत्वारिंशदादौ वा ।। ९३॥ द्विव्यष्टानां प्राक्शताच्चत्वारिंशदादावुत्तरपदे यथासङ्ख्यं द्वात्रयोऽष्टा वा स्युः, अनशीतिबहुव्रीहौ । द्वाचवारिंशत् , द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् , त्रिचत्वारिंशत् । अष्टाचवारिंशत् अष्टचत्वारिंशत् ॥ हृदयस्य हृत् लासलेखाऽण्ये ॥१४॥ अस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये हृत् स्यात् । हृल्लासः, हृल्लेखः, हाईम् , हृद्यः ॥ पदः पादस्याऽऽज्याऽऽतिगोप. हते ॥ ९५ ॥ पादस्याज्यादावुत्तरपदे पदः स्यात् । पदाजिः, पदातरसझ्यावाची । द्वयशीतिरित्यत्राशीतिशब्द एवास्ति। द्वौ वा त्रयो वा द्वित्रा इति बहुव्रीहिः।। चत्वारिंशदादो, वा । पूर्वसूत्रं वर्तते । द्वाभ्या. मधिका चत्वारिंशदिति द्विचत्वारिंशवाचत्वारिंशद्वा, एवमप्रेऽपि ॥ हृदयस्य, हृद , लासश्च लेखश्च अण् च यश्च तस्मिन् । हृदयस्य लासो हृल्लासः, हृदयं लिखतीति हृल्लेखः, हृदयस्येदं हाईम् , हृदयस्य प्रियः हृद्यः । लेखशब्दस्याण्साहचर्यादणन्तत्वेनाण्महणेनैव सिद्धे पृथग् लेखग्रहणमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं न भवतीति न्यायं ज्ञापयति । हृदयशब्दसमानार्थेन हृच्छब्देनैव हल्लासादीनां सिद्धौ हृदादेशविधान लासादिषु परेषु हृदयशब्दप्रयोगनिवृत्त्यर्थम् ॥ पदः, पादस्य, आजिवाऽऽतिश्च गथोपहतश्च तस्मिन् । पादाभ्यामजति अतति चेत्यौणादिके इणि पदाजिः पदातिः । आजिरिति निर्देशात् 'अद्यक्यवलच्यजेवीं ' इत्यनेन वी न भवति। पादाभ्यां गच्छतीति पदगः ' नाम्नो गम' इत्यादिना डः । पादाभ्यामुपहतः पदोपहतः, पादशब्दसमानार्थः पदशब्दोऽप्यस्ति, तेन सिद्धावप्याज्यादिषूत्तरपदेषु पादशब्दप्रयोगनिवृत्त्यर्थं वचनम् । अत्र पादशब्दः प्राण्यङ्गवाचको न

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470