Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य
संज्ञाविषये पूर्वोचरपदे लुग्वा स्यात् । देवदत्तः, देवः, दत्तः ॥ दूयन्तरनवर्णोपसर्गादप ईपू ।। १०९ ।। ट्यन्तमवर्णान्तवर्जोपसर्गेभ्यश्च परस्याप उत्तरपदस्य ईप् स्यात् । द्वीपम्, अन्तरीपम्, नीपम्, समीपम् । उपसर्गादिति किम् स्वापः । अनवर्णेति किम् ? प्रापम्, परापम् || अनोर्देशे उप् ॥ ११० ॥ अनोः परस्यापो देशेऽर्थे उप्स्यात् । अनूपो देशः । देश इति किम् ? अन्वीपं वनम् ॥ खित्यनव्ययारुषो मोऽन्तो हस्वश्च ॥ १११ ॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासम्भवं ह्रस्वादेशश्च स्यात् । जंमन्यः, कालिमन्या, अरुन्तुदः । खितीति किम् ! लुगू, वा । स्पष्टम् ॥ न वर्ण अनवर्णः, अनवर्णश्चासावुपसर्गश्च तस्मात् द्विश्चान्तश्चानवर्णोपसर्गश्च तस्मादपः ईपू, द्विता आपो यस्मिन्निति द्वीपम् | अन्तर्गताः निर्गताः सङ्गता वाऽऽपोऽस्मिन्निति विग्रहः । शोभना आपः स्वापः, अत्र सुशब्दः पूजायां न तूपसर्गः, ऋक्पूः पथ्यपोऽदिति सर्वत्रात्प्रत्ययः प्रत्युदाहरणे तु नात्समासान्तः । प्रापमित्यादौ त्ववर्णान्तोपसर्ग एव ॥ अनोः, देशे, उप् । अनुगता आपोऽस्मिन्नित्यनूपो देशः । वने तु न उपादेशः किन्तु पूर्वसूत्रेण आपः ईप् अत्समासान्तः ।। ख् इदनुबन्धो यस्य तस्मिन्, नाव्ययमनव्ययम्, न रुषरुष्, अनव्ययश्चारुष् च तस्य, मः अन्तः, ह्रस्वः, च । अरुर्महणादनव्ययानां स्वरान्तत्वं लभ्यते, अतः स्वरान्तस्येत्युक्तम् । ज्ञमात्मानं कालीमात्मानं वा मन्यत इति इंमन्यः कालिमन्या, कर्तुः खशिति खश्, अनेन पूर्वपदस्य मोऽन्तः । कालीशब्दस्य तु ह्रस्वादेशोऽपि । अरुः तुदतीत्यरुन्तुदः मर्मवेधकः 'बहुविघ्तरुरि 'ति खश, अनेन मोऽन्तः, संयोगस्यादाविति सलोपः । ज्ञमानीत्यत्र तु ' मन्याण्णिन् ' णिन् प्रत्ययः खित्प्रत्ययान्तोत्तरपदाभावान्न मोऽन्तः । दोषाऽऽत्मानं मन्यते दोषामन्यम् । दोषाशब्दो
3
I
४२०
"

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470