Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
४२२
सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य जिलः, तिमिनिलगिलः । अगिलादिति किम् ! तिमिनिलगिलः ।। भद्रोष्णात्करणे ॥११६ ।। आभ्यां परः करणे उत्तरपदे मोऽन्तः स्यात् । भद्रकरणम्, उष्णकरणम् ॥ नवाऽखित्कृदन्ते रात्रे ॥ ११७ ॥ खिदर्जे कृदन्ते उत्तरपदे परे रार्मोऽन्तो वा स्यात् । रात्रिञ्चरः, रात्रिचरः । खिर्जनमिति किम् ! रात्रिमन्यमहः । कृदन्त इति किम् ! रात्रिसुखम् । अन्तग्रहणं किम् ! रात्रयिता ॥ धेनोर्भ व्यायाम् ॥ ११८ ॥ धेनोभव्यायामुत्तरपदे मोऽन्तो वा स्यात् । धेनुम्भव्या, धेनुभव्या ॥ अषष्ठीतृतीयादन्याहोऽर्थे ॥ ११९ ।। अषष्ठ्यन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे द् अन्तो वा स्यात् । अन्यदर्थः, अन्यार्थः । षष्ठयादिवर्जनं किम् ! अन्यस्यान्येन वाऽर्थोऽ. न्यार्थः ।। आशीराशाऽऽस्थिताऽऽस्थोत्सुकोतिरागे ॥१२०॥ गिलशब्दस्य पर्युदासात्स्वरान्तस्यैव मोऽन्तविधिर्न तु धूर्गिल इत्यादि. व्यञ्जनान्तपूर्वपदस्य ॥ भद्रचोष्णश्च तस्मात् , करणे। भद्रस्योष्णस्य करणम् , कृतीति समासः ।। नवा, न खिदखित् , अखिच्चासौ कृच्च। सोऽन्ते यस्य तस्मिन् , रात्रेः । रात्रौ चरति रात्रिञ्चरः, चरेष्टः, अनेन वा मोऽन्तः । रात्रिमात्मानं मन्यते रात्रिमन्यः, पूर्ववत् । रात्रेः सुखम् , अत्र सुखशब्दोऽव्युत्पन्नो न कृदन्त इति मोऽन्तो न भवति । रात्रि. रिवाचरंति, किप्, लुक्, तृच् च रात्रयिता, अत्र कृत्परत्वेऽपि न मोऽन्तः, इदमेवान्तग्रहणमिहोत्तरपदाधिकारे प्रत्ययमहणे प्रत्यय. स्यैव प्रहणं न तदन्तस्येति न्यायस्य ज्ञापकम् । धेनोः भव्यायाम् । धेनुश्चासौ भव्या च धेनुम्भव्या । धेनोविशेषणत्वेन विवक्षितत्वात् पूर्वनिपातः। विशेष्यत्वेऽपि धेनोभव्यायामिति भव्याशब्दस्य निमित्तत्वेनोपादानाद्धेनोः पूर्वनिपातः ॥ षष्ठी च तृतीया च, न पष्ठीतृतीयं तस्मात् , अन्यात् , दः अर्थे । अन्यश्वासावर्थश्च, अन्योऽर्थोऽस्येति वाऽन्यदर्थः ॥ आशीरादीनां द्वन्द्वस्तस्मिन् ।

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470