Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 460
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४२१ ज्ञमानी। अनव्ययस्येति किम् ? दोषामन्यमहः ॥ सत्यागदास्तोः कारे ॥ ११२ ॥ एभ्यः कारे उत्तरपदे मोऽन्त स्यात् । सत्यङ्कारः, अगदकारः, अस्तुङ्कारः ॥ लोकम्पृणमध्यन्दिना. नभ्याशमित्यम् ॥ ११३ ॥ एते कृतपूर्वपदमोऽन्ता निपात्यन्ते । लोकम्पृणः, मध्यन्दिनम्, अनभ्याशमित्यः ॥ भ्राष्ट्राग्नेरिन्धे ॥ ११४ ॥ आभ्यामिन्धे उत्तरपदे मोऽन्तः स्यात् । प्राष्ट्रमिन्धः, अग्निमिन्धः ।। अगिलानिलगिलगिलयोः ॥ ११५ ॥ गिला. न्तवर्जात्पूर्वपदात्परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमि. रात्रिवाचकोऽव्ययः । अव्ययप्रतिषेधाव्ययाच परतः खितोऽ. म्भवेन खिदन्तस्य ग्रहणम्, अरुश्शब्दोपादानव्ययस्य व्यञ्जनान्तस्य मोऽन्तो न भवति ॥ सत्यश्चागदश्चास्तुश्च तस्मात् , कारे । मोऽन्त इति वर्तते । सत्यकरोति सत्यस्य कार इति वा, एवमग्रेऽपि, अस्त्विति निपात: क्रियाप्रतिरूपकोऽभ्युगमे वर्तते न तुवन्तः, नाम नाम्नेति समासाप्राप्तेः ॥ लोकम्पृणश्च मध्यन्दिनश्चानभ्याशमित्यश्च । लोकं पृणति लोकस्य वा पृणः लोकम्पृणः । आये ' मूल. विभुजादयः' इति कः, षष्ठीसमासे तु 'नाम्युपान्त्ये 'ति कः। मध्यं दिनस्य, मध्यश्च तहिनश्चेति वा मध्यन्दिनम्, अनोतेपनि अभ्याश इति रूपम् , अनभ्याशं दुरं इत्यं गन्तव्यमस्येति अनभ्या. शमित्यः दूरतः परिहर्तव्येत्यर्थः ॥ भ्राष्ट्रश्चाग्निश्च तस्मात् , इन्धे, मोऽन्त इति वर्तते, एवमग्रेऽपि भ्राष्टस्येन्धः, भ्राष्ट्रमिन्धः । एवमग्निमिन्धः । न गिलोऽगिलस्तस्मात् , गिलश्च गिलगिलश्च तयोः । तिमि गिलतीति तिमिगिलः। गिलं गिलतीति गिलगिलः, तिमीनां गिलगिलः । गिलगिलेति निर्देशादेव गिलेति पूर्वपदाद्रिले उत्तरपदे मोऽन्तो न भवतीत्यगिलादिति प्रतिषेधे व्यर्थेऽपि तदन्तस्यैव प्रति. षेधार्थ तगृहणम्, अत एव गिलान्तवर्जादित्युक्तम् । स्वरान्तस्य

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470