Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 458
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४१९ वाहनः ॥ वैकव्यञ्जने पूर्ये ॥ १०५ ॥ उदकस्यासंयुक्त व्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् । उदकुम्भः, उदककुम्भः । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकदेशः ॥ मन्धौदन सक्तुविन्दुवज्रभारहारवीवधगा वा ॥ १०६ ॥ एषूत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः, उदकमन्थः । उदौदनः, उदकौदनः । उदसक्तः, उदकसक्तः । उदबिन्दुः, उदकबिन्दुः । उदवज्रः, उदकवज्रः । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः; उदकवीवधः । उदगाहः, उदकगाहः ॥ नाम्न्युत्तरपदस्य च ॥ १०७ ॥ उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघः, उदवाहः, उदपानम्, उदधिः, लवणोदः, कालोदः ॥ ते लुग्वा ॥ १०८ ॥ उदकस्य वासः, एवमग्रेऽपि । अनामार्थं वचनम् । नाम्नि त्वग्रे वक्ष्यते ॥ वा, एकञ्च तद्व्यञ्जनञ्च तस्मिन् पूर्ये । उदकस्योद इति वर्तते । उदकेन पूर्णः कुम्भः । उदकामत्रम्, उदकस्यामत्रम्, अत्र व्यञ्जनपरत्वं नास्ति । उदकेनोपलक्षितो देश: उदकदेशः, अत्र देशो न पूर्यते उदकेन || मन्थादीनां द्वन्द्वस्तस्मिन् वा । अनुवृत्तिः पूर्ववत् । उदकेन मध्यते उदमन्थः, कर्मणि घनि कारकं कृतेति समासः, द्रवद्रव्यसंस्कृताः सक्थवः मन्थः, उदकेन भन्थ इति विग्रहे तु तृतीयासमासः । उदकेनोपसिक्तः ओदनः, अत्र मयूरव्यंसकत्वात्समासः, उपसिक्तक्रियायाश्च वृत्तावन्तर्भावादुदकौ दनयोस्सामर्थ्यम् । वीवधशब्दोऽव्युत्पन्नः, पथि पर्याहारे च वर्तते ॥ नाम्नि, उत्तरश्च तत् पदञ्च तस्य च । अनुवृत्तिः पूर्ववत्, उत्तरपदाधिकारात्पूर्वपदस्यैव स्यादत उत्तरपदस्येत्युक्तम् चकाराभावे च पूर्वपदस्य न स्यात् । उदमेघो नाम यस्यौदमेघी पुत्रः । उदवाहो नाम यस्यौदवाही पुत्रः । लवणोद इत्यादि तूत्तरपदस्योदकस्योदाहरणम् ॥ ते, 9. , 9 . ·

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470