Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
૪૮
सिद्धद्देमलघुवृत्तौ
[ तृतीयाध्यायस्य
चोत्तरपदे नस् स्यात् । नस्तः, नःक्षुद्रः ॥ येऽवर्णे ॥ १०० ॥ नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस्स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम् । अवर्ण इति किम् ? नासिक्यो वर्णः ॥ शिरसः शीर्षन् ॥ १०१ ॥ शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव शिरस्तः, शिरस्यति ॥ | ! केशे वा ॥ १०२ ॥ शिरसः केशविषये ये प्रत्यये शीर्षन् वा स्यात् । शीर्षण्याः, शिरस्याः केशाः । शीर्षः स्वरे तद्धिते ॥ १०३ ॥ शिरसः स्वरादौ तद्धिते शीर्षः स्यात् । हास्तिशीर्षिः, शीर्षिकः ॥ उदकस्योदः पेषंधिवासवाहने ॥ १०४ ॥ उदकस्य पेषमादावुत्तरपदे उदः स्यात् । उदपेषं पिनष्टि, उदधिर्घटः, उदवासः, उद
1
नासिकाया वा क्षुद्रः नःक्षुद्रः ॥ ये, न वर्णोऽवर्णस्तस्मिन् । नासिकाया नसिति वर्तते । नासिकायै हितं नस्यम्, 'प्राण्यङ्गरथे ' ति यः प्रत्ययः । नासिक्यं पुरम्, चातुरर्थिको ञ्यः, सूत्रे तु निरनुबन्धस्य यस्य ग्रहणात्सानुबन्धस्याऽस्य न ग्रहणम् । नासिकायां भवो नासिक्य वर्ण:, ' दिगादिदेहांशाद्यः' इति यप्रत्ययः ॥ शिरसः, शीर्षन् । ये इति वर्तते । शिरसि भत्रः शीर्षण्यः स्वरः, शिरसे हितं 1 शीर्षण्यं तैलम् । शिरः इच्छति शिरस्यति, क्थन् प्रत्ययः, सोऽत्र न गृह्यते सानुबन्धत्वात् ॥ केशे, वा । शिरसि भवाः शीर्षण्याः शिरस्याः वा, केशविषयत्वाद्वा शीर्षन् । शीर्षः स्त्ररे, तद्धिते । हस्तिशिर इत्र शिरो यस्यासौ हस्तिशिराः, उष्ट्रमुखादय इति समासः, हस्तिशिरसोऽपत्यं हास्तिशीर्षिः । ' बाह्वादिभ्यो गोत्रे ' इति इन्प्रत्ययः, अनेन शीर्ष आदेशः । शिरसा तरतीति शीर्षिकः, इकप्रत्ययः, अनेन शीर्ष आदेशः ॥ उदकस्य, उदः, पेषमादीनां द्वन्द्व स्वस्मिन् । उदकेन पिनष्टि- उदपेषं पिनष्टि, ' स्वस्नेहनार्थादि 'ति णम् । उदकं धीयतेऽस्मिन्नित्युदधिः, ' व्याप्यादाधारे ' इक्प्रत्ययः ।
,

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470