Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 468
________________ द्वितीयपाद: ] अवरिपरिष्कारसहितायाम् । ४२९ इदम्किमौ यथासङ्ख्यमीत्कीरूपौ स्याताम् । ईदृक्, ईदृशः, ईदृक्षः । कीहक्, कीडशः, कीहक्षः ॥ अनना त्वो यप् ॥१५४॥ नमोऽ. न्यस्मादव्ययात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य क्वो यप् स्यात् । प्रकृत्य । अनज इति किम् ! अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव ! अलङ्कृत्वा ॥ पृषोदरादयः ॥१५५॥ एते साधवः स्युः । पृषोदरः, बलाहकः ॥ वाऽपाप्योस्तनिक्रीधाग्नहोर्वपी ॥ १५६ ।। अवस्योपसर्गस्य तनिक्रियोरपेश्च धामहोर्यथासङ्ख्यं व-पी वा स्याताम् । वतंसः, अवतंसः । वक्रयः, अवक्रयः । पिहितम् , अपिहितम् । पिनद्धम् , अपिनद्धम् ॥ इति कलिकालसर्वशाचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेम. चन्द्राभिधानस्योपशशब्दानुशासनलघुवृत्तौ तृतीयस्याध्या. यस्य द्वितीयः पादः समाप्तः ॥ दृशोऽन्याहक्षः । एवमग्रे ॥ इदश्च किच, ईच कीच । अयमिव दृश्यते, ईदृगीदृशः ईदृक्षः। क इव दृश्यते कीहकीरशः कीदृक्षः । न नजू, अन तस्मात् क्त्वा, यप् । प्रकर्षण कृत्वा प्रकृत्य । न कृत्वाऽकृत्वा, नन् समास: । परमञ्च तत्कृत्वा च परमकृत्वा, अत्रा. व्ययपूर्वपदत्वं नास्ति । अनबः इति नञसदृशमव्ययं गृह्यते इति नबोऽनव्ययाच्च क्त्वो यन्न भवति । अलङ्कत्त्वेत्यत्र तु न समासः, अत एव पूर्वोत्तरपदत्वाभावान यबादेशः ॥ पृषोदरादयः। पृषोदर इत्येवम्प्रकाराश्शब्दाः विहितलोपागमवर्णविकाराः यथायथं शिष्टपुरुषैः प्रयुज्यमानाः साधवो भवन्ति, पृषदुदरमुदरे वास्येति पृषोदरः अत्र तकारलोपो निपात्यते । वारिणो वाहकः बलाहकः, अत्र पूर्वपदस्य बः, उत्तरपदादेश्व ल आदेशः बलाहकः ॥वा, अवश्चापिश्च तयोः, तनिश्च क्रीश्च, धाक् च नच, तनिक्रीच धागनह् च तयोः, वश्च पिश्च वपी । वतंसः, अवतंसः, वक्रयः अवक्रयः, एषु अवस्य विकल्पेन वाऽऽदेशः । पिहितादौ तु अपेः प्यादेशः ॥ इति तृतीयाध्याये द्वितीयपादस्यावरिपरिष्कारः समाप्तः ॥

Loading...

Page Navigation
1 ... 466 467 468 469 470