Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
॥ १४७ ॥ एतद्वाच्युत्तरपदे सहस्याव्ययीभावे सः स्यात् । सकलं ज्योतिषमधीते ॥ नाऽऽशिष्य गोवत्सहले || १४८ ॥ गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? : सपुत्रः । गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे, सहगवे, सवत्साय, सहवत्साय, सहलाय, सहहलाय || समानस्य धर्मादिषु ॥ १४९ ॥ धर्मादावुत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥ सब्रह्मचारी ॥ १५० ॥ अयं निपात्यते ।। दृक्दृशदृक्षे ॥ १५१ ॥ एषूत्तरपदेषु समानस्य सः स्यात् । सदृक्, सदृशः, सहक्षः ॥ अन्यत्यदादेराः ॥ १५२ ॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । अन्यादृक्, अन्यादृशः, अन्यादृक्षः | त्यादृक्, त्यादृशः, त्यादृक्षः । अस्माट्ठक्, अस्मादृशः, अस्मादृक्षः ॥ इदम्किम् ईत्की || १५३ || हगादावुत्तरपदे
४२८
,
सहराजभ्यां कृग्युचेरिति कनिपू । ग्रन्थस्यान्तस्तस्मिन् । कलामन्तं कृत्वा सकलं ज्योतिषमधीते, अत्र कलाशब्दः कालविशेषवचनोऽपि तत्सहचारिषु प्रन्थेषु वर्तत इति प्रन्थान्तवाचित्वमुत्तरपदस्य, अन्त इत्यव्ययीभावः ॥ न, आशिषि, गोश्व वत्सश्च हलव, ततो नम् समासस्तस्मिन् । स्वस्ति गुरवे सहशिष्यायात्र सहस्य न स आदेशः । सपुत्रः, अत्राशिषो न गम्यता । सगवे सहगवे इत्यादौ सहस्य सोऽन्यार्थे इति वा सादेशः ॥ समानस्य, धर्मादिषु । समानो धर्मोऽस्येति सधर्मा, 'द्विपदाद्धर्मादन् ' । सत्रानं नामास्य सनाम ॥ सब्रह्मचारी । समानो ब्रह्मचारी, समाने ब्रह्मणि आगमे गुरुकुले च व्रतं चरतीति सब्रह्मचारी, निपातनादेव व्रतशब्दस्यापि लोपः । दृक् च दृशश्च दृक्षश्च तस्मिन् | समान इव दृश्यते सदृक् सदृशः सद्दक्षः । दृशदृक्ष साहचर्यात् टक्स कूप्रत्यय सहचरित कियन्तस्यैव दृशो प्रहणम् ॥ अन्यश्च त्यदादिश्च तस्य, आ: । अन्य इव दृश्यते अन्याद्दगन्या

Page Navigation
1 ... 465 466 467 468 469 470