Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 466
________________ द्वितीयादः ] अवचूरिपरिष्कारसहितायाम् । मांसस्यानङ्घञि पचि नवा ॥ १४१ ॥ अनड्ङ्घञन्ते पचावुतरपदे मांसस्य लुग्वा स्यात् । मांस्पचनम्, मांसपचनम् । मांस्पाकः, मांसपाकः ॥ दिक्शब्दात्तीरस्य तारः ॥ १४२ ॥ अस्मात्परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम्, दक्षिणतीरम् ॥ सहस्य सोऽन्यार्थे ॥ १४३ ॥ उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः, सहपुत्रः । अन्यार्थ इति किम् ? सहजः ॥ नाम्नि ॥ १४४ ॥ उत्तरपदे परे बहुव्रीहौ सहस्य सः संज्ञायां स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव ! सहदेवः कुरुः ॥ अह. श्याधिके ॥ १४५ ॥ अदृश्यं परोक्षम्, अधिकमधिरूढं तदर्थयोरुत्तरपदयोर्बहुव्रीहौ सहस्य सः स्यात् । साग्निः कपोतः सद्रोणा खारी ॥ अकालेऽव्ययीभावे ॥ १४६ ॥ अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे सः स्यात् । सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाद्धं शेते । अव्ययीभाव इति किम् ! सहयुध्वा ॥ ग्रन्थाऽन्ते " ४२७ I कामोऽस्यास्तीति गन्तुकामः सम्यग् मनोऽस्येतिः समनाः, सह. शब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थं वचनम् । मांसस्य, अनद् च घञ् च तस्मिन् पचि, नवा | मांसस्य पचनं मांस्पचनं मांसपचनम्, एवमग्रे । दिशि दृष्टः शब्दः दिक्शब्दस्तस्मात् तीरस्य तारः । दक्षिणस्यास्तीरं दक्षिणतीरम् ॥ सहस्य सः अन्यस्यार्थ - स्तस्मिन् । सह पुत्रेणागतः सपुत्रः सहपुत्रो वा ॥ नाम्नि | पृथग्योगाद्वेति निवृत्तम् । सहाश्वत्थेन वर्तते साश्वत्थम् । सह दीव्यतीति सहदेवः, नात्र बहुवीहिः || अदृश्यश्चाधिकश्च तस्मिन् । अग्निना सह वर्तते साग्निः, अत्राग्निरदृश्यः । सह द्रोणेन वर्तते सद्रोणा खारी, द्रोणेनाधिका खारीत्यर्थः ॥ अकाले, अव्ययीभावे । ब्रह्मणः सम्पत् सब्रह्म, सम्पत्तावव्ययीभावः । कालवाचिन्युत्तरपदे तु सहपूर्वाह्मं शेते, साकल्येऽव्ययीभावः । सह योधितवानिति सहयुवा,

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470