Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ४२५ स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥ कोः कत्तत्पुरुषे ॥ १३० ॥ स्वरादावुत्तरपदे कोस्तत्पुरुषे कत्स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः। स्वर इत्येव ! कुब्राह्मणः ॥ रथवदे ॥ १३१ ॥ रथे वदे चोत्तरपदे कोः कस्यात् । कद्रथः, कद्वदः ॥ तृणे जातौ ॥ १३२ ॥ जातावर्थे तृणे उत्तरपदे कोः कस्यात् । कत्तॄणा रोहिषाख्या तृणजातिः ॥ कति ॥ १३३ ॥ कोः किमो वा त्रावुत्तरपदे कस्यात् । कत्रयः ॥ काऽक्षपथोः ॥ १३४ ॥ अननिर्देशान्नलोपो द्वित्वश्च न भवति । स्वर इत्युत्तरपदस्य विशेषणात्तदाविविधिः । कोः, कत् , तत्पुरुषे । स्वरे इति वर्तते । कुत्सितोऽश्वः कदश्वः, गतिकन्यस्तत्पुरुष इति प्रतिपदोक्तस्तत्पुरुषोऽत्र ग्राह्यः । तेन कुं पृथिवीमतीतः कतीतः, अत्र कोः कन्न भवति, श्रितादिभिरिति समासस्य प्रतिपदोक्तत्वाभावात् , द्वितीयान्तं श्रितादिभिस्समस्यते इति तदर्थत्वेन तत्र द्वितीयान्तमित्यस्य सामान्यवचनत्वात् । कुत्सिता उष्ट्राः यस्मिन्देशे कूष्टः, अत्र न तत्पुरुषः । कुत्सितो ब्राह्मणः कुब्राह्मणः, अत्र नोत्तरपदं स्वरादि ॥ रथश्च वदश्च तस्मिन् । कोः कदिति सम्बध्यते । कुत्सितो रथः कद्रथः ॥ तृणे, जातौ । अनुवृत्तिः पूर्ववत् । कुत्सितं तृणमस्याः कत्तृणा, अत्र कत्तृणशब्दो जातिवाची, अवयवार्थस्तु वृत्तावसन्नेव दश्यते ॥ कत्, त्रि । त्रावित्येव सिद्धे कत्रीति करणं किमोऽपि परिग्रहार्थम् । कुत्सिताः के वा त्रयः कत्रयः ॥ का, अक्षश्च पन्था च तयोः । कोरिति सम्बध्यते । अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य चाविशेषेण ग्रहणम् । कुत्सितोऽक्षः काक्षः कुत्सितमश्मि अक्षं वाऽस्य काक्षः, 'सक्थ्यक्ष्णः स्वाङ्गे' इत्यक्षिशब्दस्य टप्रत्ययः । कुत्सितः पन्थाः कापथम्, ऋक्तरित्यत्प्रत्ययः, नोऽपदस्य तद्धिते इत्यन्त्यस्वरादेर्लुक, पथः सङ्ख्येति नंपु.

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470