Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ४२३ एकूत्तरपदेष्वषष्ठीतृतीयादन्याहोऽन्तः स्यात् । अन्यदाशीः, अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्यदुत्सुकः, अन्यदूतिः, अन्यद्रागः । अषष्ठीतृतीयादित्येव ! अन्यस्य अन्येन वा आशीः अन्याशीः ।। ईयकारके ॥ १२१ ॥ अन्याद् ईये प्रत्यये कारके चोत्तरपदे दोऽन्तः स्यात् । अन्यदीयः, अन्यत्कारकः ॥ सर्वादिविश्वद्ने. वादू डद्रिः कयञ्चौ ॥ १२२ ।। सर्वादेर्विष्वग्देवाभ्याश्च परतः किबन्तेऽचावुत्तरपदे डदिरन्तः स्यात् । सर्वद्रीचः, द्वयव्यङ्, कद्रयङ्, विष्वव्यङ्, देवव्यङ् । कीति किम् ! विष्वगश्चनम् ॥ सहसमः सधिसमि ॥ १२३ ॥ अनयोः स्थाने किबन्तेऽञ्चावुत्तरपदे यथासत्यं सध्रिसमी स्याताम् । सध्यङ्, सम्यङ्, क्यञ्चावित्येव ! सहाञ्च. अन्यदाशीरित्यादयः कर्मधारयाः, सर्वत्र च दोऽन्तः ॥ ईयश्च कारकश्च तस्मिन् । पृथग्योगादषष्ठीतृतीयादिति निवृत्तम् । अन्यादः इति वर्तते । अन्यस्यायमन्यदीयः, गहादित्वादीयप्रत्ययः, अन्यस्यान्येन वा कारक इति याजकादिभिरिति कारकं कृता इति च समासः ॥ सर्व आदिर्यस्य, सर्वादिश्च विष्वक् च देवश्च तस्मात् , डद्रिः, किचन्तोऽश्चिस्तस्मिन् । सर्वमञ्चतीति सर्वव्यङ्, तस्य द्वितीयाबहुवचने सर्वद्रीचः, किप, लुक, अञ्चोऽनर्चायां नलोप: अनेन डद्रि आदेशः, अच्च प्राग्दीर्घश्च सर्वद्रीचः । द्वावञ्चति, किपू, अनेन डद्रिः, डित्यन्त्यस्वरादेः, अञ्चोऽनायाम् , अच इति नोऽन्तः, व्यव्यङ् । किमश्चतीति कद्रयङ् । विष्वगश्चतीति विष्वव्यक् । देवानम्वतीति देवव्यछ । विष्वगश्चनम् , अत्राश्चतिर्न कियन्तः, धातुग्रहणे तदादेस्समुदायस्य ग्रहणं प्राप्नोतीति कीत्युक्तम् ॥ सहश्व समश्च तस्य सध्रिश्च समिश्च सूत्रत्वाल्लोपः । कयञ्चाविति वर्तते, यथासयपरिभाषा च । सह अञ्चतीति सध्यङ्, अनेन सध्यादेशः, सम्यगश्चतीति सम्यङ्, सम: सम्यादेशः । स्पष्टम् ॥

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470