Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
४२६
सिरहेमलघुवृत्तौ [ तृतीयाध्यायस्य योरुत्तरपदयोः कोः का स्यात् । काऽक्षः, कापथम् ॥ पुरुषे वा ॥१३५॥ पुरुषे उत्तरपदे कोः का वा स्यात् । कापुरुषः, कुपुरुषः ।। अल्पे ॥ १३६ ॥ ईषदर्थस्य कोरुत्तरपदे का स्यात् । कामधुरम् , काऽच्छम् ॥ काकवी वोष्णे ॥ १३७ ।। उष्णे उत्तरपदे कोः काकवौ वा स्याताम् । कोष्णम् , कवोष्णम् , पक्षे यथाप्राप्तमिति । तत्पुरुषे, कदुष्णम् , बहुव्रीही, कूष्णो देशः ॥ कृत्येऽवश्यमो लुक् ।। १३८ ।। कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ! अवश्यं लावकः ॥ समः ततहिते वा ॥१३९।। तते हिते चोचरपदे समो लुग्वा स्यात् । सततम् , सन्ततम् । सहितम् , संहितम् ॥ तुमश्च मन:कामे ।। १४० ।। तुम्समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः, समनाः, सकामः ।। सकत्वम् , बहुव्रीहौ त्वाश्रयलिनता ॥ पुरुषे, वा । कोः का इत्यनु. वर्तते । कुत्सितः पुरुषः कापुरुषः कुपुरुषः, अनीषदर्थे विकल्पोऽ. यम्, ईषदर्थे तु परत्वादुत्तरेण नित्यमेव ॥ अल्पे, अनुवृत्तिः पूर्ववत् । ईषन्मधुरं कामधुरम् , ईषदच्छं काच्छम् । स्वरादावपि परत्वादीषदर्थे कादेश एव भवति ॥ का च कवश्व, वा, उष्णे । ईषत्कुत्सितं वा उष्णं कवोष्णं कोष्णम् , पक्षे कदादेशः, कदुष्णम् । बहुवीहौ तु न कदादेशस्तत्पुरुषे इत्युक्तेः, तेन कूष्णो देशः ॥ कृत्ये, अवश्यमः, लुक । अवश्यङ्कार्यमवश्यकार्यम् , अनेनान्त्यस्य मकारस्य लुक्, कार्यमिति कृत्यप्रत्ययान्तोत्तरपदपरत्वात् , अव्ययं प्रवृद्धा. दिभिरिति, मयूरव्यंस कादिना वा समासः । अवश्यंलावकः, लावक इति कृत्यप्रत्ययान्तो न ॥ समः, ततश्च हितश्च तस्मिन् , वा । लु गिति वर्तते । सन्तन्यते स्मेति सततं सन्ततं वा । सन्धीयते स्मेति सहित संहितं वा, 'धाग' इति हिरादेशः । तुमः, च मनश्च, कामश्च तस्मिन । लुगिति वर्तते । भोक्तुं मनोऽस्यास्तीति भोक्तुमनाः, गन्तुं

Page Navigation
1 ... 463 464 465 466 467 468 469 470