Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
४२४
सिद्धहेमलघुवृत्तौ
[ तृतीयाध्यायस्य
नम् || तिरसस्तिर्यति ॥ १२४ ॥ अकारादौ विबन्तेऽञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्वः || नव् अत् ॥ १२५ ॥ उत्तरपदे परे नन् अः स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव ! न भुङ्क्ते ॥ त्यादौ क्षेपे ॥ १२६ ॥ त्याद्यन्ते पदे परे निन्दायां गम्यमानायां नञ् अः स्यात् । अपचसि त्वं जाल्म ! | क्षेप इति किम् ? न पचति चैत्रः ॥ नगोऽप्राणिनि वा ॥ १२७ ॥ अप्राणिन्यर्थे नगो वा निपात्यते । नगः, अगो गिरिः । अप्राणिनीति किम् ? अगोऽयं शीतेन ।। नखादयः ॥ १२८ ॥ एते अकृताकाराद्यादेशा निपात्यन्ते । नखः, नासत्यः ॥ अन्स्वरे ॥ १२९ ॥
तिरसः, तिरि, अति । अनुवृत्तिः पूर्ववत् । तिरोऽञ्चतीति तिर्यङ्क, अत्र अञ्च प्राग्दीर्घश्चेति चादेशो न भवत्यतः अकारादेरचतेः सद्भाबातू तिरसस्तिर्यादेशः, तिरश्वः इत्यत्र तु शसि चादेशेऽकारादेरश्चतेरभावेन न तिर्यादेशः ॥ नञ्, अत् । न विद्यते चौरो यत्र स अचौरः पन्थाः । अनेन नमोऽकारादेशः न भुङ्क्ते, अत्र समासाभावान्न पूर्वोत्तरपदत्वं कस्यापीति नाकारादेशः ॥ त्यादौ क्षेपे । ति आदिर्यस्य तस्मिन् क्षेपे । पूर्वसूत्रं वर्तते । न पचस्य पचसि त्वं जाल्म, कुत्सितं पचसीत्यर्थः । तिबन्तेन समासाभावादप्राप्ते, अमानोनाः प्रतिषेधवचनाः इत्यकारेण प्रतिषेधार्थी येनैवापचसीत्यादिसिद्धौ क्षेपे नमः श्रवणनिवारणार्थश्च वचनम् ॥ नगः, न प्राणी तस्मिन् वा । न गच्छतीति नगः, ' नाम्नो गमः खड्डावि 'ति डप्रत्ययः, अन्त्यस्वरादिलोपः । ननत् प्राप्तो निषिध्यते, पक्षेऽगः । प्राणिवाचित्वे तु पूर्वसूत्रेण नित्यमः । पूर्वेण नित्यमादेशे प्राप्ते विकल्पार्थमिदम् || नखादयः । न खमस्येति नखः, उष्ट्रमुखादित्वात्समासः । न सत्योऽसत्यः न असत्यः नासत्यः । अन्, स्त्ररे । नमः इति वर्तते । न विद्यतेऽन्तोऽस्येत्यनन्तः, अनेनान्, अनिति स्वरूप

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470