Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ४१७ तिः, पदगः, पदोपहतः ॥ हिमहतिकाषिये पद् ॥ ९६ ॥ हिमादावुत्तरपदे ये च प्रत्यये पादस्य पत्स्यात् । पद्धिमम् , पद्धतिः, पत्काषी, पद्याः शर्कराः ॥ रचः शसि ॥ ९७ ॥ ऋचां पादस्य शादौ शस्प्रत्यये परस्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादशः श्लोकं वक्ति । द्विःशपाठात् स्यादिशसि न स्यात् , ऋचः पादान् पश्य ॥ शब्दनिष्कघोषमिश्रे वा ॥९८ ॥ शब्दादावुत्तरपदे पादस्य पद् वा स्यात् । पच्छब्दः, पादशब्दः । पन्निष्कः, पादनिष्कः । पद्घोषः, पादघोषः । पन्मिश्रः पादमिश्रः ॥ नसू नासिकायाः ताक्षुद्रे ॥ ९९ ॥ नासिकायास्तस्प्रत्यये क्षुद्रे
तु परिमाणवचनः, गत्यादौ प्राण्यङ्गस्यैव करणत्वात् ॥ हिमश्च हतिश्च काषिश्च यश्च तस्मिन् पद् । पादस्येति वर्तते । पादयोः हिमं पद्धिमम् , पादाभ्यां हतिः पद्धतिः, पादौ कषतीत्येवंशीलः पत्काषी, पादौ विध्यन्तीति पद्याः शर्कराः ॥ ऋचः षष्ठी, शकारादिः शस् इशस् तस्मिन् । पादस्य पदिति पदद्वयमनुवर्तते । पादं पादं गायव्याः शंसतीति, पच्छो गायत्रीं शंसति । नन्विह पादं गायच्या. शंसतीति गायत्र्याः पादशब्देन सम्बन्धात् षष्ठ्याः इव गायत्री पच्छः शंसतीत्यत्रापि षष्ठी स्यात् , कथं गायत्रीमिति द्वितीयेति चेन्न, शंसनक्रियापेक्षया कर्मत्वात् । श्लोकस्य पादं पादं वक्तीति पादशः श्लोकं वक्ति, अत्र ऋचः सम्बन्धिपादशब्दाभावान्न पदादेशः । शकारद्वयपाठात् स्यादिविभक्तिसम्बन्धिशसि परे न पदादेशः, यथा ऋचः पादान् पश्य ॥ शब्दादीनां द्वन्द्वस्तस्मिन् , वा। पादस्य पंदित्यनुवर्तते। पादस्य शब्दः पच्छब्दः पादशब्दो वा। एवमग्रेऽपि ॥ नस्, नासिकायाः, तः, क्षुद्रे । नासिकायां नासिकाया वा नस्तः · अहीयरुहोऽपादाने ' इति वा तसुः प्रत्ययः, एवं नासिकायां

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470