Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 453
________________ ४१४ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य न्ते उत्तरपदे दीर्घः स्यात् । उपानत् , नीवृत्, प्रावृट् , श्वावित् , नीरुक्, ऋतीषट्, जलासट, परीतत् ॥ घञ्युपसर्गस्य बहुलम् ॥ ८६ ॥ घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः, नीवारः । बाहुलकात्वचिद्वा, प्रतीवेशः, प्रतिवेशः । क्वचिन्न, विषादः, निषादः ॥ नामिनः काशे ॥ ८७ ॥ नाम्यन्तस्योपसर्गस्याजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः, वीकाशः । नामिन इति किम् ! प्रकाशः ॥ दस्ति ॥ ८८ ॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीतम् , वीतम् । द इति रोचते नीरुक् । ऋति पीडां सहते ऋतीषट्, जलं सहते जलासट् । परितनोतीति परीतत् । श्वाविहतीषन्नलास डिति कारकस्योदाहरणानि, इतरे गतेः । ऋतीपडित्यत्र भीरुष्ठानादित्वात् षत्वम् । इह किवग्रहणादन्यत्र धातुग्रहणे तदादिविधिलभ्यते, तेनायस्कृतमयस्कार इत्यादौ सकारस्सिद्धो भवति, अन्यथा हि अयस्कृदित्यत्रैव सकारः स्यात् ॥ घञि, उपसर्गस्य, बहुलम् । घमात्रस्योत्तरपदत्वासम्भवादाह, घनन्त इति । यद्यप्युत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं तथापि घञः उपसर्गपरत्वासम्भवेन घञन्तस्यैव ग्रहणम् । नितरां क्लिद्यतेऽनेनेति नीक्छेदः, 'व्यञ्जनाद् घञ्'। नितरां ब्रियते इति नीवारः ॥ नामिनः षष्ठी, काशे । घजन्ते विकल्पितत्वाद. जन्ते एवायं काशशब्द इत्याह-अजन्ते । निकाशते विकाशते इति नीकाशो वीकाशः ॥ दः षष्ठी, ति सप्तमी । उपसर्गस्य नामिन इति पदद्वयमनुवर्तते । निदीयते स्म, विदीयते स्मेति नीतं वीत्तम् । दासंज्ञानां चतुर्णामन्यतमात् के कृते ददित्यस्यापवादः स्वरादुपसर्गादिति दा इत्यस्य त्त् इत्यादेशः, दागस्तु निदातुमारब्धम् , आरम्भे तः, 'निविस्वन्ववादिति त् । वितीर्णम् , अनादेशरूपो न तका. रादिः। सुदत्तमित्यत्र दाधातोर्दत् आदेशेऽपि न तादिरादेशः ॥

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470