Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
४१२
सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य संज्ञायां दीर्घः स्यात् । कोटरावणम् मिश्रकावणम् , सिधकावणम् , पुरगावणम् , सारिकावणम् ॥ अञ्जनादीनां गिरौ ॥ ७७ ॥ एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः, कुक्कुटागिरिः ॥ अनजिरादिषस्वरशरादीनां मतौ ॥ ७८ ।। अजिरादिवर्जबहुस्वराणां शरादीनां च मतो प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती, शरावती, वंशावती । अनजिरादीति किम् ! अजिरवती, हिरण्यवती ॥ ऋषौ विश्वस्य मित्रे ॥ ७९ ॥ ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥ नरे ॥ ८० ॥ नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ॥ वसुराटोः ॥ ८१ ॥ अनयोरुत्तरपदयोर्विश्वस्य कोटराणां वनम् , समासे दीर्घ च कृते नामत्वाद्वनशब्दस्य — पूर्वपदस्थादि 'त्येव णत्वे सिद्धेऽत्र सूत्रे कृतणत्वस्य वनशब्दस्य निर्देशो नियमार्थः । कृतदीर्थेभ्यः कोटरादिभ्य एव परस्य णत्वमिति, तेन कुवेरवनमित्यादौ संज्ञायामपि णत्वं न भवति, कृतदीर्थेभ्यः कोटरादिभ्यो वनस्यैव णत्वं नान्येषामिति विपरीतनियमस्तु न सम्भवति, वनादन्यस्मिनुत्तरपदे कोटरादीनां दीर्घासम्भवात् ॥ अञ्जनादीनाम् गिरौ । अञ्जनानां गिरिरञ्जनागिरिः, बहुवचनमाकृतिगणार्थम् ॥ अजिर आदिषाम् , नाजिरादयः, बहवः स्वरा येषान्ते, अनजिरा. दयश्च बहुस्वराश्च शरादयश्च तेषाम् , मतौ । उदुम्बराः सन्त्यस्यामि. त्युदुम्बरावती, नद्यां मतुः, नाम्नीति यस्य वः, बहुस्वरत्वादनेन दीर्घः, एवमग्रेऽपि । बहुवचनमाकृतिगणार्थम् , अजिरादिराकृतिगणः ॥ ऋषौ, विश्वस्य, मित्रे । विश्वस्य मित्रः विश्वामित्रो नामर्षिः ॥ नरे। विश्वस्येति वर्तते । विश्वे नरा अस्य, विश्वानरो नाम कश्चित् ॥ वसुश्च राट् च तयोः। विश्वस्येति वर्तते, पृथग्योगान्नाम्नीति निवृत्तम् । विश्वं वसु अस्य विश्वावसुः, विश्वस्मिन्राजते किप् , यजसृजेति षत्वम् ,

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470