Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
सिद्ध हेमलघुवृत्तौ
[ तृतीयाध्यायस्य
कार्थेऽच्वेः ॥ ७० ॥ महतोऽच्व्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डाः स्यात् । महाजातीयः, महावीरः । जातीयैकार्थ इति किम् ? महत्तरः । अच्चेरिति किम् ? महद्भूता कन्या ॥ न पुंवन्निषेधे ॥ ७१ ॥ महतः पुंवन्निषेधविषये उत्तरपदे डा न स्यात् । महतीप्रियः ॥ इच्यस्वरे दीर्घ आच ॥ ७२ ॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वमाश्च स्यात् । मुष्टीमुष्टि, मुष्टा
४१०
अनेन महच्छन्दस्य जातीये प्रत्यये परे डान्तादेशः । महांश्चासौ वीरश्च महावीरः, अत्रैकायै उत्तरपदे महतो डान्तादेशः । नन्वेकार्थे इति किमर्थम्, जातीये चेति कृतेऽपि चकारेणोत्तरपदाकर्षणात्तेन च समासस्याक्षेपात् "लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायेन प्रतिपदोक्तस्यैव समासस्य ग्रहणालाक्षणिके षष्ठी तत्पुरुषे महत्याः पुत्रः महतीपुत्र इत्यादौ न डा भविष्यतीति चेत्, मैवम्, षष्ठीतत्पुरुषवन्महाभागोऽस्येत्यादौ बहुव्रीहावपि न स्यादतस्तग्रहणम् । अत्र पाणिनीये महच्छब्देन महच्छब्दान्तस्यापि ग्रहणं कृतं तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवतीति बोध्यम् । अमहती महतीसम्पन्ना महद्भूता, अत्र च्व्यन्तत्वान्न डाः || न, पुंवदित्यस्य निषेधः पुंत्रनिषेधस्तस्मिन् । महतः डाः इति वर्तते । महती प्रियाऽस्येति महतीप्रियः । अत्र नाप्रियादाविति पुंवन्निषेधविषयस्य प्रियेत्युत्तरपदस्य सद्भावान्न महतो डान्तादेशः । इचि न विद्यते स्वरो यत्र तस्मिन् दीर्घः, आत्, च। मुष्टिभिश्च मुष्टिभिश्च प्रहृत्य कृतं युद्धमित्यत्र तत्रादायेति समासः, इज्युद्धे इतीन्प्रत्ययः, अनेन दीर्घे मुष्टीमुष्टि, आत्वे च मुष्टामुष्टि । अस्य समासस्वाव्ययीभावत्वाद्विभक्तेरनतो लुबिति लुप् । असिभिरसिभिः प्रहृत्य कृतं युद्धमस्यसि, अत्रोत्तरपदस्य स्वरादित्वान्न दीर्घत्वम्, दीर्घ साहचर्यादात्वमपि न भवति ॥ हविषि, अष्टनः कपाले ।
1

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470