Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
४०८
सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य विदुषीकल्पा । श्रेयसिकल्पा, श्रेयस्कल्पा, श्रेयसीकल्पा । पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा । श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा । पचन्तिचेली, पचच्चेली, पचन्तीचेली। श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा । श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । पचन्तिमता, पचन्मता पचन्तीमता । श्रेयसि. मता, श्रेयोमता, श्रेयसीमता । पचन्तिहता, पचद्धता, पचन्तीहता । श्रेयसिहता, श्रेयोहता, श्रेयसीहता ॥ यः ॥ ६४ ॥ ड्यन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थे ह्रस्वः स्यात् । गौरितरा, गौरितमा, नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्रामणिगोत्रा, गार्गिमता, गौरिहता ॥ भोगवद्गौरिमतोर्नाम्नि ॥ ६५ ।। अनयोयन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् । भोगवतितरा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली, भोगवतिगोत्रा, गौरिमतिमता, भोगवतिहता । नाम्नीति किम् ! भोगवतितरा
प्रकृष्टा पचन्ती पचत्तरा, अत्र पुंवद्भावः, पक्षे वा ह्रस्वः । पचन्तीशब्दस्तु ऋदित्प्रत्ययान्तः, श्रेयसीतरा इत्यत्र तूदित्प्रत्ययान्तः । पचन्तीरूपा, अत्र प्रशस्ते रूपप्प्रत्ययः, पचन्तीकल्पेत्यत्र तु कल्पप् प्रत्ययः। पचन्ती चासौ ब्रुवा च, पचन्ती चासौ चेली च, एवमग्रेऽपि । चेलडिति टित् वचनं ड्यर्थम् । ब्रुवादयः कुत्सनवचनास्तेन निन्द्य कुत्सनैरिति समासः ॥ यः. षष्ठी। द्वयोर्मध्ये प्रकृष्टा गौरी गौरितरा । 'नवैकस्वराणामि'त्युत्तरत्र वचनादनेकस्वरस्यैवायं विधिः । नर्तकिरूपा इत्यादौ कोपान्त्यत्वात्पुंवद्भावप्रतिषेधादयं विधिः । दर्शनीयतरा, विद्वद्वन्दारिकेत्यादौ पुंभावः सावकाशः, गौरितरे. त्यादौ तूभयप्राप्तौ "स्पर्द्ध पर” इति न्यायेन परत्वादयमेव विधिः ॥ भोगवांश्च गौरिमांश्च तयोर्नाम्नि । स्पष्टम् ॥ नवा, एकः स्वरो

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470