Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 445
________________ ४०६ सिद्धहेमलथुवृत्तौ [ तृतीयाध्यायस्य जातिवाची च परतः स्त्री पुंवन्न स्यात् , न तु मानिनि । दीर्घकेशीभार्यः, कठीभार्यः, शूद्राभार्यः । स्वाङ्गादिति किम् ! पटुभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी ॥ पुंवत्कर्मधारये ॥ ५७ ॥ परतः स्त्री अनूङ कर्मधारये सति-स्थ्येकार्थे उत्तरपदे परे पुंवत्स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका | रिति ॥ ५८ ॥ परतः स्त्री अनूङ् रिति प्रत्यये पुंवत्स्यात् । पटुजातीया, कठदेशीया ॥ त्वते गुणः ॥२९॥ परतः स्व्यनूङ् गुणवचनस्त्वतयोः प्रत्यययोः पुंवत्स्यात् । पटुत्वम, कठेन प्रोक्तं वेत्तीति कठी, जातेरयान्तादिति ङीः, कठी भार्या यस्य, अत्र कठीति जातिवाची । शूद्रा भार्या यस्येत्यत्रापि शूद्राशब्दो जाति. वचनः। पट्टीभार्या यस्येत्यत्र न स्वाङ्गङ्यन्तस्तस्मात् पुंवद्भावः॥ पुंवत् , कर्मधारये । परतः स्त्री पुंवत्स्येकार्थेऽनूडिति वर्तते । कल्याणी चासौ प्रिया च, अनेन पुंवद्भावः । नाप्रियादावित्यस्यापवादोऽयम् । मद्रिका चासौ भार्या च, अत्र तद्धिताककोपान्त्येति निषेधे प्राप्तेऽनेन पुंवत् । माथुरी चासौ वृन्दारिका चेत्यत्र तद्धितः स्वरवृद्धीति निषेधे प्राप्तेऽनेन पुंवद्भावः । चन्द्रमुखी चासौ वृन्दारिका चेत्यत्र स्वाङ्गाद् ङीर्जातिश्चेति निषेधे प्राप्ते पुंवद्भावः ॥ र इदनुबन्धो यस्य तस्मिन् । पट्टी प्रकारोऽस्याः, 'प्रकारे जातीयरि 'ति जातीयर्प्रत्ययः, अनेन पुंवत् । ईषदपरिसमाप्ता कठी कठदेशीया 'अतमबादेरि 'ति देशीयर्प्रत्ययोऽनेन पुंवत्, अप्राप्तप्रापणार्थोऽयमारम्भः ॥ त्वश्च तश्च तस्मिन् , गुणः। पट्याः भावः पटुत्वं पटुता। गुणवचनत्वात्पुंवद्भावः, गुण इति गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गृह्यते, गुणमात्र. वृत्तेरस्त्रीलिङ्गत्वात्पुंवद्भावाप्राप्तेः । कठीत्वमित्यस्य तु न गुणवचनत्वं जातिवाचित्वात् । यद्यप्यत्र गुण इति असत्यपि स्वाङ्गात् ङीरिति पुंवद्भावप्रतिषेधस्सिद्धस्तथापि सर्वांपवादत्वमस्य दर्शयितुं गुण इति

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470