Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 443
________________ ४०४ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य तद्धितेति किम् ! हस्तिनीयति हस्तिन्यः ॥ एयेऽग्नायी ॥५२॥ एयप्रत्ययेऽग्नाय्येव परतः स्त्री पुंवत्स्यात्, आग्नेयः । पूर्वेण सिद्धे नियमार्थमिदम्, श्यैनेयः ॥ नाप्रियाऽऽदौ ॥५३ ॥ अप्प्रत्ययान्ते स्व्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुंवन्न स्यात् । कल्याणीपञ्चमा रात्रयः, कल्याणी प्रियः । अप्पियादाविति किम् ! कल्याणपञ्चमीकः पक्षः ॥ तद्धिताऽककोपान्त्यपूरण्याख्याः समाश्रयणे पट्टयाः भावः इत्यत्र पट्टीशब्दस्य लध्वादित्वाभावेन 'वृवर्णाल्लध्वादेरि' त्यण् न स्यात , ततश्च पाटवमिति न सिद्ध्येत् ।। एये, अग्नायी । अनुवृत्तिः पूर्ववत् । अग्नाय्याः अपत्यमाग्नेयः, पुंवद्भावे कृते, 'कल्पग्नेरेयणि' त्येयणप्रत्ययः । पूर्वेण सिद्ध नियमार्थमिदम् , तेन श्येनेयः इत्यत्र एयणप्रत्ययविषये श्येनीशब्दस्य न पुंवद्भावः । अत्र — द्विस्वरादनद्यादेरि' त्येयणप्रत्ययः ॥ न, प्रियः आदिर्येषान्ते, अप् च प्रियादिश्च तस्मिन् । स्त्री पुंवत्रूये. कार्थे इति वर्तते । कल्याणी पञ्चमी आसां ताः, अत्र पञ्चमीति पूरण्यप्प्रत्ययान्ते परत: कल्याणीशब्दस्य पुंवद्भावनिषेधः। 'पूरणीभ्यस्तत्प्राधान्येऽबि'त्यप्, अवर्णेति ईलोपः, आदित्याप् , ततो जसि रूपं कल्याणीपश्चमाः । कल्याणी प्रिया यस्य, अत्रापि प्रियादौ परन: पुंवद्भावः, प्रियाशब्दस्य च गोश्चान्ते हस्वः । कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे 'क्रन्नित्यदितः कच्' परतः स्त्री पुंवत्, अत्र पुल्लिङ्गस्य पक्षस्य प्राधान्यात्. पूरणीभ्य इति अप्समासान्तप्रत्ययो न भवति ॥ तद्धितश्चाकश्च तयोः कः, तद्धिताक का उपान्त्यो यासाम् , तद्धिताककोपान्त्याश्च पूरणी चाख्या च ते । श्री पुवन्नेति वर्तन्ते । मद्रिका भार्या यस्य सः, अत्र मद्रिकाशब्दस्य तद्धितप्रलयान्तत्वेन परत: खी पुंवदिति प्राप्तस्य पुंवद्धावस्यानेन निषेधः । कारिका भार्या यस्य कारिकाभार्यः, अत्र अप्रत्ययान्तत्वेन मुंवद्भावनिषेधः ।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470