Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 441
________________ ४०२ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य ॥४९॥ परतो विशेष्यवशास्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुंवस्यात्, न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ! द्रोणीभार्यः । स्त्रीति किम् ! खलपुदृष्टिः । स्व्येकार्थ इति किम् ! गृहिणीनेत्रः, कल्याणीमाता। अनूङिति किम् ! करभोरूमार्यः ॥ क्यङ्मानिपित्तद्धिते ॥५०॥ क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनूडू पुंवत्स्यात् । श्येतायते, दर्शनीयमानी अयमस्याः, पुमानिव पुंवत् , स्त्री च तदेकार्थश्च तस्मिन् , यद्वा खियामेकार्थ तस्मिन् , एकार्थं नाम समानविभक्तिकं समानाधिकरणमित्यर्थः, न ऊडनूङ् । विशेष्यवशात् यशब्दः स्त्रीलिङ्गः सः स्त्रियां वर्तमाने समानाधिकरणे उतरपदे परे पुंवद्भवति, न चेपूर्वपदः उडन्तः । दर्शनीया भार्या यस्य सः, अत्र दर्शनीयशब्दो भार्याशब्दवशात् स्त्रीलिङ्गे वर्तते, भार्याशब्दस्य तु गोश्चान्ते हस्व इति ह्रस्वः । द्रोणी भार्या यस्य स इति द्रोणीभार्यः, अत्र द्रोणीशब्दो न विशेष्यवशास्त्रीलिङ्गः, किन्तु स्वत एव । खलं पुनाति यत्कुलं तत्खलपु, खलपु दृष्टिरस्यासो खलपुदृष्टिः, नात्र खलपुशब्दः स्त्रियां वर्तते । गृहिणी नेत्रं यस्य सः गृहिणीनेत्रः, अत्र समानाधिकरणत्वेऽपि न खीलिङ्गोत्तरपदं वर्तते । एवं कल्याण्याः माता कल्याणीमाता, अत्र स्त्रीलिङ्गोत्तरपदत्वेऽपि न सामानाधिकरण्यम् । करभवत् अरू जो यस्याः सा करभोरू:, उपमानसहितेत्यू प्रत्ययः, करभोरू भार्या यस्य सः करभोरूभार्यः। अत्र पूर्वपदमूङन्तमेव ॥ प् इदनुबन्धो यस्य स पित् , पिच्चासौ तद्धितश्च पित्तद्धितः, क्यङ् च मानी च पित्तद्धितश्च तस्मिन् । परतः स्त्री पुंवदनूङिति वर्तते । इयेनीवाचरति श्येतायते, क्यङ् प्रत्यये रूप. मिदम् । क्याङि परे च श्येनीशब्दस्य पुंवद्भावे डीनिवृत्तौ निमित्ताभावे नैमित्तिकस्याप्यभाव इति न्यायेन ङीनिमित्तेन जातस्य तकारस्थानिकनकारस्य निवृत्तौ दीर्घश्चियङीति दीर्धे श्येतायते । यिं दर्शनीयां

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470