Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 440
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । मनवाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आनावैष्णवं चरुं निर्वपेत् ॥ दिवो द्यावा ॥ ४४ ॥ देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी || दिवस्दिवः पृथिव्यां वा ।। ४५ ।। देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ, दिवः पृथिव्यौ, द्यावापृथिव्यौ ॥ उषासोषसः ॥ ४६ ॥ देवताद्वन्द्वे उषसः उत्तरपदे उषासा स्यात् । उषासासूर्यम् ॥ मातरपितरं वा ॥ ४७ ॥ मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः, मातापित्रोः ॥ वर्चस्कादिष्ववस्करादयः ॥ ४८ ॥ एष्वर्थेष्वेते कृतशषसाधुत्तरपदाः साधवः स्युः । अवस्करोऽन्नमलम्, अवकरोऽन्यः । अपस्करो रथाङ्गम्, अपकरोऽन्यः ॥ परतः स्त्री पुंवत्स्त्रये कार्थेऽनू 1 ४०१ 1 नपि विधीन् वाघत इति न्यायात्, तेनान्तरङ्गत्वात्पूर्वमीकाराssकारयोर्न सम्भवः, अग्नीवरुणावित्यत्रोत्तरपदं न वृद्धिमत् | अग्निश्च विष्णुश्च अग्नाविष्णू, वेदसहश्रुतेति पूर्वपदस्याकारोऽन्तादेशः, अग्नाविष्णू देवताऽस्येत्याग्नावैष्णवं 'देवतार्थेऽण्', उभयपदवृद्धिः ॥ दिवः, द्यावा । यौश्च भूमिश्च द्यांवाभूमी, इतोऽत्यर्थादिति ङीः । दिवस् च दिवश्च पृथिव्यां वा । दिव इत्यनुवर्तते । द्यौश्च पृथिवी च दिवस्पृथिव्यौ, दिवः पृथिव्यौ । द्यावादेशे च यावापृथिव्यौ । दिवसिति निर्देशात्सकारस्य न रुत्वम् ॥ उषासा प्रथमा, उषसः षष्ठी । उषश्च सूर्यश्च उषा सासूर्यम् । उषः शब्दः प्रभातवाचको नपुंसकः, सन्ध्यावाचकस्तु स्त्रीक्लीबः ॥ मातरथ पितरश्च मातरपितरम्, वा । माता च पिता च मातरपितरौ तयोः मातरपितरयोः, पक्षे आ द्वन्द्व इति पूर्वस्य आः । वर्चस्क आदिर्येषान्तेषु, अवस्कर आदियैषान्ते । अवकीर्यत इत्यवस्करः, अन्यार्थे अवकरः ॥ परस्मात्परतः, स्त्री ५१

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470