________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
मनवाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आनावैष्णवं चरुं निर्वपेत् ॥ दिवो द्यावा ॥ ४४ ॥ देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी || दिवस्दिवः पृथिव्यां वा ।। ४५ ।। देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ, दिवः पृथिव्यौ, द्यावापृथिव्यौ ॥ उषासोषसः ॥ ४६ ॥ देवताद्वन्द्वे उषसः उत्तरपदे उषासा स्यात् । उषासासूर्यम् ॥ मातरपितरं वा ॥ ४७ ॥ मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयोः, मातापित्रोः ॥ वर्चस्कादिष्ववस्करादयः ॥ ४८ ॥ एष्वर्थेष्वेते कृतशषसाधुत्तरपदाः साधवः स्युः । अवस्करोऽन्नमलम्, अवकरोऽन्यः । अपस्करो रथाङ्गम्, अपकरोऽन्यः ॥ परतः स्त्री पुंवत्स्त्रये कार्थेऽनू
1
४०१
1
नपि विधीन् वाघत इति न्यायात्, तेनान्तरङ्गत्वात्पूर्वमीकाराssकारयोर्न सम्भवः, अग्नीवरुणावित्यत्रोत्तरपदं न वृद्धिमत् | अग्निश्च विष्णुश्च अग्नाविष्णू, वेदसहश्रुतेति पूर्वपदस्याकारोऽन्तादेशः, अग्नाविष्णू देवताऽस्येत्याग्नावैष्णवं 'देवतार्थेऽण्', उभयपदवृद्धिः ॥ दिवः, द्यावा । यौश्च भूमिश्च द्यांवाभूमी, इतोऽत्यर्थादिति ङीः । दिवस् च दिवश्च पृथिव्यां वा । दिव इत्यनुवर्तते । द्यौश्च पृथिवी च दिवस्पृथिव्यौ, दिवः पृथिव्यौ । द्यावादेशे च यावापृथिव्यौ । दिवसिति निर्देशात्सकारस्य न रुत्वम् ॥ उषासा प्रथमा, उषसः षष्ठी । उषश्च सूर्यश्च उषा सासूर्यम् । उषः शब्दः प्रभातवाचको नपुंसकः, सन्ध्यावाचकस्तु स्त्रीक्लीबः ॥ मातरथ पितरश्च मातरपितरम्, वा । माता च पिता च मातरपितरौ तयोः मातरपितरयोः, पक्षे आ द्वन्द्व इति पूर्वस्य आः । वर्चस्क आदिर्येषान्तेषु, अवस्कर आदियैषान्ते । अवकीर्यत इत्यवस्करः, अन्यार्थे अवकरः ॥ परस्मात्परतः, स्त्री
५१