________________
सिद्धमलघुवृत्तौ
[ तृतीयाध्यायस्य
नाम् ॥ ४१ ॥ एषां द्वन्द्वे पूर्वपदस्योचरपदे आः स्यात् । इन्द्रासोमौ । वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशकौ । श्रुतेति किम् ? चन्द्रसूर्यौ । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ! यूपचषालौ || ईः षोमवरुणेऽग्नेः ॥ ४२ ॥ वेदसहश्रुतावायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरीः स्यात् । षोमेति निर्देशाद् ईयोगे षत्वञ्च । अग्नीषोमो, अग्नीवरुणौ । देवताद्वन्द्व इत्येव ? अग्निसमौ बटू ॥ इर्वृद्धिमत्यविष्णौ ॥ ४३ ॥ विष्णुवर्जे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरिः स्यात् । अग्निवारुणी
४००
1
वायवः अवायवः, अवायवश्च ताः देवताश्च वेदसहश्रुताश्च ताः अवायुदेवताश्च तासाम् । आ द्वन्द्वे इति वर्तते । वेदे सहश्रतानां वायुवर्जितदेवतानां द्वन्द्वे पूर्वपदस्योत्तरपदे परे आः स्यादित्यर्थः । इन्द्रश्च सोमश्चेन्द्रासोमौ, अनेन पूर्वपदस्य आः । ब्रह्मा च प्रजा पतिश्च ब्रह्मप्रजापती वेदे न सहश्रुताविमौ । विष्णुश्च शक्रश्च विष्णुशक्रौ, वेदे पुथगनयोः श्रुतत्वेऽपि सहश्रुतत्वं नास्ति । चन्द्रश्च सूर्यश्व चन्द्रसूर्यौ, एतौ हि वेदे शब्दान्तरेण विद्येते, चन्द्रसूर्येत्यादिशब्दैस्तु न श्रुतौ । यूपश्च चषालश्च यूपचपाली, वेदे सहनिर्दिष्टत्वेऽपि न देवतावाचिनावेतौ ॥ ई:, पोमश्च वरुणश्च तस्मिन् अमेः षष्ठी । पूर्व. सूत्रं द्वन्द्वे इति च वर्तते । षोमेति निर्देशादीकारसन्नियोगे पत्र निपात्यते । अमिश्च सोमश्च अमीषोमो, अनेन ई: षत्वञ्च । अनिश्च सोमश्च अग्निसोमौ, नेमो देवतावाचिनौ, किन्तु माणवकौ ॥ इ, वृद्धिर्विद्यते यस्यासौ तस्मिन् न विष्णु र विष्णुस्तस्मिन् । अग्नेरिति वर्तते । अग्निश्च वरुणश्च अग्नीवरुणौ, पूर्वसूत्रेण ई:, अग्नीवरुणौ देवतेऽस्याः असौ अग्निवारुणी, देवतार्थेऽण् प्रत्ययः । 'देवतानामात्वादावि 'त्युभयपदवृद्धिः, अनेन चालौकिके वाक्ये ईकारमाकारच बाधित्वा इकाराऽन्तादेशः, बहिरङ्गापि लुप् अन्तरङ्गा
•
·