Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 442
________________ द्वितीयपादः ] अवधूरिपरिष्कारसहितायाम् | ४०३ अजथ्यं यूथम् । जातिश्च णितद्धितयस्वरे ॥ ५१ ॥ अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुंवत्स्याद्, अनूङ् । पटयति, एत्यः, भावत्कम् । जातिः - दारद्यः, गार्गः । मन्यते चैत्रः इति दर्शनीयमानी, अत्र मानिनि उत्तरपदे पूर्वपदस्य पुंवद्भावः, अत्रासमानाधिकरणत्वात्पूर्वसूत्रेण न पुंवद्भावः । अजायै हितमजध्यं ' अव्यजात्थ्यप् ', अत्र स्वाङ्गात् ङीर्जातिश्चेति निषेधेऽपि पिस्करणात्पुंवद्भावः ॥ जातिः, च, यश्च स्वरश्च यस्त्ररम्, तद्धितश्च तचस्वरश्च णिश्च तद्धितयस्वरख तस्मिन् । अनुवृत्तिः पूर्ववत् । पट्टीमाचष्टे, णिम्बहुलम्, अनेन णौ पुंवद्भावः 'नामिनोऽकलि इलेरि 'ति वृद्धौ, ' त्र्यन्त्यस्वरादेरिति ' तल्लोपे तिव्, शब्, गुणः, पटयति । एन्यां साधुः एत्यः, 6 तत्र साधौ ' यः, अनेन पुंवद्भावः, निमित्तापाये नकारस्यापि निवृत्तिः । भवत्या इदं भावत्कं, अनेन पुंवद्भावे सति, 'भवतोरिकणीयसा' वितीकण् प्रत्ययः, 'ऋवर्णोवर्णदोसी'तीकणः इकारलोपः इत्येवमन्यायाः पुंवद्भावः । दरदोऽपत्यं स्त्री दारय:, 'पुरुमगधे 'त्यण्, देरव्वगोऽप्राच्यभ र्गादेरित्यण्लोपः, ततः दरदि साधुः दारयः, ' तत्र साधौ यः' इति यविषये पुंवद्भावे सति अणोऽवस्थानं, अवस्थाने च वृद्धिः, अवर्णेवर्णस्येत्यलोपः । गार्ग्ययण्याः कुत्सितमपत्यम्, अत्र प्रथमं पुंवद्भावे डायन्ङीनिवृत्तौ सत्यां गार्येत्यवस्थायां ' वृद्धस्त्रियाः क्षेपे णेकणौणा वि ' इति णः, ततः ' तद्धितस्वर ' इति यलोपः, गार्गः । अत्र गार्ग्यायणीशब्दः "गोत्रञ्च चरणैः सहे "ति जातिकार्यभाक् । हस्तिनीमिच्छति हस्तिनीयति, ' अमव्ययात्क्यन् ' अयं न तद्धितयः, किन्तु नामधातुसम्बन्धियः, अतो न पुंवत् । हस्तिन्यः जसि रूपम्, नात्र तद्धितस्वरः, पुंवद्भावश्च ण्यादिप्रत्ययानयनपूर्वकाले एव कर्तव्यः, ततो ण्यादिप्रत्ययाः भवन्ति, अत एव णितद्धितयस्वरे इति विषयसप्तमी, अन्यथा परसप्तभी " 1

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470