Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 450
________________ ४११ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । मुष्टि । अस्वर इति किम् ! अस्यसि ॥ हविष्यष्टनः कपाले ॥ ७३ ।। हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घः स्यात् । अष्टाकपालं हविः । हविषीति किम् ! अष्टकपालम् । कपाल इति किम् ! अष्टपात्रं हविः ॥ गवि युक्ते ॥ ७४ ॥ युक्तेऽर्थे गव्युत्तरपदेऽष्टनो दीर्घः स्यात् । अष्टागवं शकटम् । युक्त इति किम् ! अष्टगुश्चैत्रः ॥ नाम्नि ।। ७५ ।। अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलासः । नाम्नीति किम् ? अष्टदंष्ट्रः ॥ कोटरमिश्रकसिध्रकपुरगसारिकस्य वणे ॥ ७६ ॥ एषां कृतणत्वे वने उत्तरपदे दीर्घ इति वर्तते । अष्टसु कपालेषु संस्कृतमष्टाकपालं हविः, संस्कृतं भक्ष्येऽणित्याप्रत्ययः, द्विगोरनपत्ये, अण्लोपः, अनेनाष्टन्शब्दस्य दीर्घोऽन्तादेशः । न चाष्टन्शब्दस्यान्त्यभूतो नकारो लुमः, नवा स्थानिवत्वं परविधौ दीर्घे नलोपस्यासत्त्वात्कथमत्र दीर्घोऽन्तादेश इति वाच्यम् , दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयाऽन्त्यत्वादीचे बाधकाभावात् । अष्टानां कपालानां समाहारोऽष्टकपालम् , अत्र हविरों नास्ति । अष्टसु पात्रेषु संस्कृतं हविरष्टपात्रम् , अत्र हविषि वर्तमानत्वेऽपि कपालोत्तरपदत्वं नास्ति ॥ गवि, युक्ते । अष्टनः दीर्घ इति पदद्वयमनुवर्तते । अष्टौ गावो युक्ता अस्मिन् शकटे इत्यष्टागवमिति त्रिपदे बहुव्रीही कृते उत्तरपदे परे द्वयोगुिः । गोस्तत्पुरुषादित्यः समासान्तः । अनेन चाष्टशब्दस्य दीर्घोऽन्तादेशः, गोश्वान्ते ह्रस्वः, अस्वयम्भुवोऽव् । अत्र दीर्चे कृते युक्तार्थस्य बोधाद्. युक्तशब्दनिवृत्तिः, 'उक्तार्थानामप्रयोग' इति न्यायात् । अष्टौ गावो यस्य सः अष्टगुः, गोश्वान्ते ह्रस्वः, अत्र युक्तार्थो नास्ति ।। नाम्नि । अष्टौ पदान्यत्राष्टापदः कैलासशैलस्य संज्ञा, अत एवानेन दीर्घः । अष्टौ दंष्ट्राः यस्यासावष्टदंष्ट्रः ॥ कोटरश्च मिश्रकश्च सिधकश्च पुरगश्च सारिकश्च तस्य, वणे । दी? नाम्नीति वर्तते, एवमप्रेऽपि ।

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470