Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् ।
४०९ भोगवत्तरा, भोगवतीतरा । नवैकस्वराणाम् ॥६६॥ एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्येकार्थे वा ह्रस्वः स्यात् । स्त्रितरा स्त्रीतरा। ज्ञितरा, जीतरा । ज्ञितमा, ज्ञीतमा । ज्ञिब्रुवा, ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीतरा ॥ ऊङः ॥ ६७ ।। ऊङन्तस्य तरादौ चोत्तरपदे ध्येकार्थे वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा । कद्रुब्रुवा, कब्रुवा ।। महतः करघासविशिष्टे डाः ॥ ६८ ॥ करादावुत्तरपदे महतो डा वा स्यात् । महाकरः, महत्करः। महाघासः, महद्घासः । महाविशिष्टः, महद्विशिष्टः ॥ स्त्रियाम् !! ६९ ॥ स्त्रीवृतेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः महाघासः, महाविशिष्टः ।। जातीयै
येषान्ते, तेषाम् । बहुवचनात्परतः स्त्रीति निवृत्तम् , ख्येकार्थे इत्यनुवर्तते । खितरा, एकस्वरत्वादनेन वा ह्रस्वोऽन्तादेशः तरादौ परतः । ज्ञीतरेत्यादौ ह्रस्वविकल्पपक्षे पुंवन्न भवति, धवयोगे डयां पश्चात्संज्ञाविवक्षायां तद्धिताककेति निषेधात् ।। ऊङः षष्ठी । ब्रह्मा बन्धुरस्याः, उतोऽप्राणिन इत्यूप्रत्ययः, द्वयोर्मध्ये प्रकृष्टा ब्रह्मबन्धू ब्रह्मबन्धूतरा। कद्रू ब्रुवेत्यत्र 'बाह्वन्तकद्रुकमण्डलोरि'त्यूङ् ॥ महतः, करच घासश्च विशिष्टश्च तस्मिन्, डाः। महतां करः महाकरः, करादौ परे महतो डान्तादेशः । वैयधिकरण्ये विभाषेयम् , सामानाधिकरण्ये तु जातीयैकार्थेऽच्वेरित्युत्तरसूत्रेण नित्य एव विधिः । डकारोऽन्त्यस्वरादिलोपार्थः ॥ स्त्रियाम् , पूर्वसूत्रमनुवर्तते । महत्याः करः महाकरः, यद्यपि "नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमि"ति न्यायेन पूर्वसूत्रेणैव डान्तादेशस्सिद्धस्तथापि नित्यार्थोऽय. मारम्भः ।। जातीयश्चैकार्थश्च तस्मिन् , न चिरच्चिस्तस्य । महतः डा इति वर्तते । महान्प्रकारोऽस्य महाजातीयः, प्रकारे जातीयप्रत्ययः,

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470