Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 452
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् | ४१३ दीर्घः स्यात् । विश्वावसुः, विश्वाराट् ॥ वलच्यपित्रादेः ॥ ८२ ॥ वलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवलः । अपित्रादे रिति किम् ? पितृवलः मातृवलः ॥ चितेः कचि ॥ ८३ ॥ चितेः कचि दीर्घः स्यात् । एकचितीकः ॥ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नछिन्नच्छिद्रस्रुवस्वस्तिकस्य कर्णे ॥ ८४ ॥ स्वामी चिह्नयते येन तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घः स्यात् । दात्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः || गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ को ।। ८५ ।। गतिकारकयोर्नद्यादौ किब , I षस्य डः, राडिति विकृतनिर्देशात् यदा राडिति रूपं भवति तदैव दीर्घस्तेन विश्वराजावित्यादौ न दीर्घः ॥ वलचि, न पित्रादिस्तस्य । आसुतिः सुरा अस्यास्तीति आसुतीवलः, कृष्यादिभ्यो वलच् अनेन दीर्घः । वलजित्यत्र चकारः प्रत्ययत्व प्रकाशनाय, तेन कायबलमित्यादौ बलशब्दे परे न दीर्घः ॥ चितेः कचि । एका चितिरस्मिन्नित्येक. चितीकः, शेषाद्वेति कच्, अनेन कचि दीर्घः ॥ स्वामिनः चिह्न तस्य, विष्टादीनां द्वन्द्वस्ततो नन्समासस्तस्य, कर्णे । पाणिनीये तु मणिशब्दोऽपि वर्जितः । दात्रं चिह्नं कर्णे यस्य, दात्रमिव वा कर्णौ यस्य दात्राकर्णः । स्वरूपेण यथा कर्णस्य ग्रहणं तथा न स्वामिचिह्नस्य, किन्तु तद्वाचिनामेवान्यथा विष्टादीनां प्रतिषेधो व्यर्थः स्यात् । लम्बौ कर्णौ यस्य सः लम्बकर्णः । यत्पशूनां स्वामिविशेष सम्बन्धज्ञापनार्थं दात्राकारादिचिह्नं क्रियते, तदेव स्वामिचिह्नमत्र ग्राह्यम्, लम्बकर्णता च न स्वामिचिह्नम् ॥ गतिश्च कारकञ्च तस्य, नह्यादीनां द्वन्द्वस्तस्मिन् कौ । उपनयत्युपनह्यते वा उपानत् किप्, तल्लोपः, नहाहोर्धताविति हस्य धः, विरामे वा अनेन दीर्घः । निवर्तत इति नीवृत्, प्रवर्षतीति प्रावृटू, श्वानं विध्यतीति श्वावित् नितरां "

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470