Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपाद: ]
अवचूरिपरिष्कारसहितायाम् ।
|| ५४ || तद्धितस्याकप्रत्ययस्य च क उपान्त्यो यासां ताः पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री पुंवन्न स्युः । मद्रिकाभार्यः कारिका - भार्यः, पञ्चमीभार्यः । दत्ताभार्यः । तद्धिताकेति किम् ? पाकभार्यः ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे ।। ५५ ।। रक्तविकाराभ्यामन्यार्थः स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री पुंवन्न स्यात् । माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः । अरक्तविकार इति किम् ? काषायवृतिकः, लौहेषः ॥ स्वाङ्गाद् ङीर्जातिश्चामानिनि ।। ५६ ।। स्वाम्नायो ङीस्तदन्तो
४०५
"
पचमीभार्यः पूरणप्रत्ययान्तत्वेन पञ्चम्याः पुंवद्भावनिषेधः । दत्ता भार्यः, दत्तेति कस्याश्चित्संज्ञाऽतः पुंवद्भाव निषेधः । पाका भार्या यस्येति पाकभार्यः, अत्र तु पाकेति न तद्धिताकप्रत्ययः, किन्त्वौणादिकः पाकशब्दः वयोविशेषे उणादिषु निपातितः, अतो न पुंवद्भावप्रतिषेधः ॥ तद्धितः, स्वरस्य वृद्धिस्तस्य हेतुः, रक्तश्व विकारश्च, न रक्तविकारस्तस्मिन् । माथुरीभार्यः, अत्र माथुरीशब्दो मथुरायां भवेत्यर्थेऽणन्तः आदिवृद्धिहेतुः, अतोऽनेन पुंवद्भावनिषेधः । वैयाकरणी भार्या यस्य, अत्र अधीत्यर्थेऽण्, वकारयकारयोर्मध्ये ऐकारागम:, अत्राण् न स्वरवृद्धिहेतुः । अर्ध प्रस्थस्यार्धप्रस्थः, अर्धप्रस्थे भवा, अर्धप्रस्था, ' अर्थात्परिमाणस्ये 'त्यनेनोत्तरपदस्य वृद्धि - विधावकारवर्जनादाद्यस्य च वा वृद्धिविधानान्नात्र वृद्धिः, अत एव वृद्धिहेतुतद्धितो नास्तीति अर्धप्रस्था भार्या यस्येत्यत्र पुंवद्भावः । कषायेन रक्का काषायी, सा बृहतिकाऽस्येति काषायवृहतिकः, अत्र रक्तार्थस्तद्धितः । लोहस्य विकारो लौही, सा ईषाऽस्य लौहेषः, अत्र विकारार्थे तद्धितः || स्वञ्च तदङ्गश्च तस्मात् ङीः जातिः, च, न मानी तस्मिन् । दीर्घाः केशाः यस्याः सा, 'असहनन् 'ति ङीः, दीर्घकेशी भार्यां यस्य, अत्र दीर्घकेशीति स्वाङ्गाद्विहितञ्चन्तः ।
,

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470