Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 436
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ३९७ स्थयोश्चोत्तरपदयोर्न लब् न स्यात्, भवत्येवेत्यर्थः । स्थण्डिलवर्ती, साझाश्यसिद्धः, समस्थः ॥ षष्ठ्याः क्षेपे ॥ ३० ॥ उत्तरपदे परे क्षेपे गम्ये षष्ठ्या लब् न स्यात्। चौरस्य कुलम् ।। पुत्रे वा ॥३१॥ पुत्रे उत्तरपदे क्षेपे षष्ठ्या लब् वा न स्यात् । दास्याः पुत्रः, दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥३२॥ एभ्यः परस्याः षष्ठ्या यथासङ्घयं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः, वाचोयुक्तिः, दिशोदण्डः ॥ अदसोऽकमायनणोः ।। ३३ ॥ अदसः यति, ' नाम्येकस्वरादि 'त्यतो विभक्तिलुनिषेधार्थे ननि अनुवर्तमानेऽपि विभक्तिलुब्विध्यर्थ नेन सिद्धस्थ इत्यत्र पुनः नमहणात् । द्वितीयेन नमा यदि पूर्वनसम्बन्धिनिषेध एवार्थः नमो नम इत्यादाविव हढीक्रियमाणः स्याचदा विभक्तिलुम्निषेधार्थे नवि अनुवर्तमाने सति तल्लुम्विध्यर्थी सूत्रकृत्कथं पुनर्द्वितीयननं गृही. यात् , यत्तु गृहीतस्तदेतन्यायाद्वितीयनना विध्यर्थभवनं सम्भाव्यैव । स्थण्डिले वर्तत इति स्थण्डिलवर्ती, 'व्रताभीक्ष्ण्ये' इति णिन् । षष्ठयाः, क्षेपे । अत्र पूर्वपदात् क्षेपे गम्यमाने लुब्निषेध इष्यते, यथा चौरस्य कुलम् , उत्तरपदात् क्षेपे गम्यमाने तु लुबेव, यथा भूपस्य जाल्मः भूपजाल्मः, एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायाद्भाव्यम् ॥ पुत्रे, वा । पूर्वसूत्रमनुवर्तते । पूर्वेण नित्यं निषेधे प्रा विकल्पः ॥ पश्यञ्च वाक् च दिक् च तस्मात् , हरश्च युक्तिव दण्डश्च वस्मिन् । पश्यतो हरतीति पश्यतोहरः, 'षष्ठी चानादरे' इति षष्ठी, पश्यन्तमनाहय हरतीत्यर्थः । अदसः पश्चमी, अफ च, आयनण् च तयोः । अत्र अकविषये उत्तरपदे इत्युकम् , न तु अकञ् प्रत्ययान्ते उत्तरपदे इत्युच्यते, उत्तरपदाधिकारे प्रत्ययस्यैव ग्रहणात् । 'नेनसिद्ध-स्थे' इति सूत्रे इन्निवात्रासम्भवाभावात्, किन्वत्र विषय. व्याख्याने षष्ठयन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अकप्रत्ययः सम्भव

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470