Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३७९
पाणिगृधौ ॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥ १३८ ॥ चरणाः कठादयस्तद्वाचिनामद्यतन्यां यौ स्थेणौ तयोः कर्तृत्वेन सम्बधिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यात् । प्रत्यष्ठात्कठकालापम्, उदगात्कठकौथुमम् । अनुवाद इति किम् ? उदगुः कठकालापाः । शिल्पमस्येत्यर्थे ' शिल्पमितीकणि मार्दङ्गिकः, एवं पाणविकः, मार्दङ्गिकश्च पाणविकश्च मार्दङ्गिकपाणविकमिति तूर्याङ्गस्य शङ्खशाङ्खिकादिसमुदायस्तूर्यम् । अङ्गान्यवयवाः । प्राण्यङ्गानां तूर्याङ्गेषु शङ्खपटहादीनावाऽप्राणिजातित्वात्पूर्वेणैव सिद्धे व्यक्तिविवक्षायां विधानार्थं जातिविवक्षायां प्राण्यङ्गाऽप्राण्यङ्गादिसम्भेद एकत्वनिराकरणार्थं वचनम् । एतज्ज्ञापनार्थमेव च बहुवचनम् ॥ चरणस्य स्था च इणू च तस्य, अद्यतन्याम्, अनुवादे || शाखाऽध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः । प्रमाणान्तरप्रतिपन्नार्थस्य शब्देन सङ्कीनमनुवादः । प्रकृते चोदयप्रतिष्ठयोरनुवादः, यज्ञकर्मणि शंसितानुशंसनमित्येके, अनुकरणमित्यपरे । कठेन प्रोकं विदन्त्यधीयते वा कठाः, ' तेन प्रोक्ते ' ' तद्वेत्त्यधीते' इत्यण्, ' कठादिभ्यः' इति तस्य लुप् । कालाप इत्यत्र तु 'कलापी कुथुमी ' तीनो लुपि वृद्धौ कालापः । कठश्च काल|पश्च ‘कठकालापम् । एवमुदगात् कठकौथुमम् । यदा कठेषु कालापेषूदितेषु प्रतिष्ठितेषु वाssवाभ्यां तत्र गन्तव्यमिति संवादं कृत्वा तं च सङ्केतं विस्मृत्य कश्चिदास्ते, तं प्रतीदं वाक्यमुच्यते । उदगुः कठकालापा इत्यप्रसिद्धज्ञापने । कर्तृत्वेन सम्बन्धिनामिति, गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः' इति न्यायान्मुख्यवृत्त्या कर्त्ता लभ्यते । स्थेणोर्मुख्य कर्त्तुश्चरणस्येतीष्टम्, तथा न कृत्वा यत्सामान्येनोक्तं तदेतन्न्यायाभिसन्ध्यैव, अन्यथा मुख्यत्वस्य लाभो न स्यात् । एवञ्च यदि मुख्यत्वभाजा कर्त्री सह सम्बन्धः स्यात्तदैव समाहारः, यदा भावे प्रयोगः स्यात्तदा समाहारो न भवति, यथा
1

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470