SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३७९ पाणिगृधौ ॥ चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥ १३८ ॥ चरणाः कठादयस्तद्वाचिनामद्यतन्यां यौ स्थेणौ तयोः कर्तृत्वेन सम्बधिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यात् । प्रत्यष्ठात्कठकालापम्, उदगात्कठकौथुमम् । अनुवाद इति किम् ? उदगुः कठकालापाः । शिल्पमस्येत्यर्थे ' शिल्पमितीकणि मार्दङ्गिकः, एवं पाणविकः, मार्दङ्गिकश्च पाणविकश्च मार्दङ्गिकपाणविकमिति तूर्याङ्गस्य शङ्खशाङ्खिकादिसमुदायस्तूर्यम् । अङ्गान्यवयवाः । प्राण्यङ्गानां तूर्याङ्गेषु शङ्खपटहादीनावाऽप्राणिजातित्वात्पूर्वेणैव सिद्धे व्यक्तिविवक्षायां विधानार्थं जातिविवक्षायां प्राण्यङ्गाऽप्राण्यङ्गादिसम्भेद एकत्वनिराकरणार्थं वचनम् । एतज्ज्ञापनार्थमेव च बहुवचनम् ॥ चरणस्य स्था च इणू च तस्य, अद्यतन्याम्, अनुवादे || शाखाऽध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः । प्रमाणान्तरप्रतिपन्नार्थस्य शब्देन सङ्कीनमनुवादः । प्रकृते चोदयप्रतिष्ठयोरनुवादः, यज्ञकर्मणि शंसितानुशंसनमित्येके, अनुकरणमित्यपरे । कठेन प्रोकं विदन्त्यधीयते वा कठाः, ' तेन प्रोक्ते ' ' तद्वेत्त्यधीते' इत्यण्, ' कठादिभ्यः' इति तस्य लुप् । कालाप इत्यत्र तु 'कलापी कुथुमी ' तीनो लुपि वृद्धौ कालापः । कठश्च काल|पश्च ‘कठकालापम् । एवमुदगात् कठकौथुमम् । यदा कठेषु कालापेषूदितेषु प्रतिष्ठितेषु वाssवाभ्यां तत्र गन्तव्यमिति संवादं कृत्वा तं च सङ्केतं विस्मृत्य कश्चिदास्ते, तं प्रतीदं वाक्यमुच्यते । उदगुः कठकालापा इत्यप्रसिद्धज्ञापने । कर्तृत्वेन सम्बन्धिनामिति, गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः' इति न्यायान्मुख्यवृत्त्या कर्त्ता लभ्यते । स्थेणोर्मुख्य कर्त्तुश्चरणस्येतीष्टम्, तथा न कृत्वा यत्सामान्येनोक्तं तदेतन्न्यायाभिसन्ध्यैव, अन्यथा मुख्यत्वस्य लाभो न स्यात् । एवञ्च यदि मुख्यत्वभाजा कर्त्री सह सम्बन्धः स्यात्तदैव समाहारः, यदा भावे प्रयोगः स्यात्तदा समाहारो न भवति, यथा 1
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy