SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८० सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य अप्रसिद्धं कथयन्ति ॥ अक्लीबेऽध्वर्युक्रतोः ।। १३९ ॥ अध्वर्युः यजुर्वेदः, तद्विहितक्रतुवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् , न चेदेते क्लीववृत्तयः । अश्विमेधम् । अक्लीब इति किम् ? गवामयनादित्यानामयने । अध्वविति किम् ! इषुवज्रौ । क्रतोरिति किम् ! दर्शपौर्णमासौ ॥ निकटपाठस्य ॥ १४० ॥ निकटः पाठो येषामध्येतॄणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । पदकक्रमकम् ॥ नित्यवरस्य ॥१४१॥ नित्यं जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात्। अहिनकुलम् । नित्यवरस्येति किम् ? देवासुराः, देवासुरम् ॥ नदी. देशपुरा विलिङ्गानाम् ॥ १४२ ॥ एषां विविधलिङ्गानां स्वैर्द्वन्द्व प्रत्यष्ठायि कठकालापाभ्याम् , अत्र चरणस्य कर्तृत्वेन सम्बन्धे सत्यपि स कर्ता न मुख्यः किन्तु गौणः, भावस्यैव प्राधान्यात् ।। न क्लीवस्तस्मिन् , अध्वर्योः क्रतुस्तस्य ॥ अर्कश्च अश्वमेधश्च अर्का. श्वमेधम् । गवामयनञ्चाऽऽदित्यानामयनश्च गवामयनादित्यानामयने । इषुध वनश्चेषुवनौ, सामवेदे विहितौ ऋतू । दर्शश्च पौर्णमासश्च दर्शपौर्णमासौ । अमावास्यायां यो यज्ञः क्रियते स दर्शः, पूर्णमास्यां या यज्ञः क्रियते स पौर्णमासः। इमौ न क्रतू, ससोमके यागे क्रतुशब्दस्य रूढत्वात् ॥ निकटपाठस्य ॥ पदान्यधीते पदकः, एवं क्रमकः । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टो निकटपाठः । पदकश्च क्रमकश्च पदकक्रमकम् । नित्यमनिमित्तम् , जातिनिबद्धं वैरं यस्य तस्य । अहिनकुलमेतयोनित्यविरोधः । देवा. श्वाऽसुराश्च देवासुरम् , नैतेषां निर्निमित्तं वैरै किन्तु राज्यापहारादि. कृतम् । पशुविकल्पः पक्षिविकल्पश्चानेन परत्वाद्बाध्यते । महाजोरभ्रमित्यादौ पशुद्वन्द्वविकल्पस्य सावकाशत्वात् , मार्जारमूषकं ब्राह्मणश्रमणमित्यादावस्य सावकाशत्वात् , अश्वमहिषं काकोलूकमित्यादौ तूभयप्राप्तौ परत्वादयमेव भवति ॥ नदी च देशश्च पूश्च तासाम ,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy