SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवरिपरिष्कारसहितायाम् । ३८१ एकार्थः स्यात् । गमाशोणम् , कुरुकुरुक्षेत्रम् , मथुरापाटलिपुत्रम् । विलिङ्गानामिति किम् ! गङ्गायमुने ॥ पाठ्यशूद्रस्य ॥ १४३ ।। पात्राहशूद्राचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् । पायेति किम् ? जनङ्गमबुक्कसाः ॥ गवाश्वादिः ॥ १४४ ॥ अयं द्वन्द्व एकार्थः स्यात् । गवाश्वम् , गवाविकम् ॥ न दधिपयआदिः ॥ १४५ ॥ दधिपय आयो द्वन्द्व एकार्थो न स्यात् । दधिपयसी, विविधं लिङ्गं यस्यां तासाम् ॥ गङ्गा च शोणश्च गङ्गाशोणं शोणो हृदः । कुरवश्व कुरुक्षेत्रश्च. कुरुकुरुक्षेत्रम् ।। मथुरा च पाटलिपुत्रश्च मथुरापाटलिपुत्रम् । पुरां देशत्वात्तद्हणेनैव सिद्धे पूर्महणं प्रामनिषेधार्थम् , अतोऽत्रैकवद्भावः । उपभोगस्थानत्वं हि देशस्य लक्षणम् , तच्च पुर्यप्यस्ति । देशग्रहणेन च जनपदानां ग्रहणं पृथग्नदीपूर्वहणात्तेन पर्वतानां न, यथा कैलासश्च गन्धमादनञ्च कैलासगन्धमादने । पात्रमहति पाठ्यः पाञ्यश्चासौ शूद्रश्च तस्य ॥ यैर्भुक्के पात्रं संस्का. रेण शुद्ध्यति ते पात्रार्हाः। पात्र्यशूद्रा द्विप्रकारा आर्यावर्तान्तर्गताः, तद्वाह्याश्च । आर्यावर्त्तजानामार्यावर्त्तजैः, तद्बाह्यानां तद्वायैः । आर्यावर्तश्च प्रागादर्शात् प्रत्यक्कालकवनाद् दक्षिणेन हिमवन्तमुत्तरेण पारियात्रम् । तक्षा च अयस्कारश्च तक्षायस्कारम् । इदमुदाहरणमार्यावर्त्तपाव्यशूद्राणाम् , तद्वाह्यानाञ्च किष्किन्धगन्धिकं ज्ञेयम् । जनङ्गमाश्च बुक्कसाशा, जनङ्गमााण्डालाः, बुक्कसास्तु म्लेच्छा इति । न ह्येतेभ्यः त्रैवर्णिकाः स्वं प्रात्रं प्रयच्छन्ति, तैर्भुक्ते पात्रस्य संस्कारेण शुद्धेः । अत्र शूद्रशब्दः त्रैवर्णिकेतरपरः, न तु शूद्रत्वजातिपरो जानङ्गमि. कादावभावात् , प्रत्युदाहरणासङ्गतेः ।। गवाश्वादिः । गौश्च अश्वश्च गवाश्वम् । 'पशुव्यञ्जनानामिति विकल्पे प्राप्ते नित्यार्थः पाठः, 'स्वरे वाऽनक्षे' इत्यवादेशः । गौश्च अविका च गवाविकम् । अविरेव अविका अजेत्यर्थः ॥ न दधिपय आदिः ।। दधि च पयश्च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy