________________
३८२
सिद्धहेमलघुवृत्तौ । [ तृतीयाध्यायस्य सप्पिर्मधुनी ॥ सङ्ख्याने ॥ १४६ ॥ वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थो न स्यात् । दश गोमहिषाः, बहवः पाणिपादाः ॥ वान्तिके ॥ १४७ ॥ वर्तिपदार्थानां सङ्ग्यानस्य समीपे गम्ये द्वन्द्व एकार्थो वा स्यात् । उपदशं गोमहिषम् , उपदशा गोमहिषाः ॥ प्रथ. मोक्तं प्राक् ॥ १४८ ।। अत्र समासप्रकरणे प्रथमान्तेन यन्निर्दिष्टं दधिपयसी, · पशुव्यञ्जनानामिति विकल्पे प्राप्त प्रतिषेधोऽयम् । सर्पिश्च मधु च सर्पिर्मधुनी ॥ सङ्ख्यायते येन तत्सझ्यानं तस्मिन् , सख्याने ॥ इयत्तापरिच्छेदः सख्यानम् । वर्तिपदार्थानामिति, समासघटकपूर्वोत्तरपदार्थानामित्यर्थः । गावश्च महिषाश्च गोमहिषाः। पाणयश्च पादाश्च पाणिपादाः, 'प्राणितूर्याङ्गाणामित्यस्यापवादः। 'बहुगणं भेदे' इति बहुशब्दो भेदवृत्ती स्यात्, न तु वैपुल्ये सङ्के वा, भेदः पृथग्रूपता, यथा बहवः पुरुषाः, वैपुल्ये च न स्याद् यथा बहुधान्यमित्यादि ॥ वा अन्तिके । उपगता दश येषां यस्य वा उपदशम्, नव एकादश वा गोमहिषसमूह इत्यर्थः । द्वन्द्वार्थस्यैकत्वात्तदनुप्रयोगस्यापि बहुव्रीहेरेकवचनान्तत्वम् । दशानां समीपमुपदशमि. त्यव्ययीभावस्यानुप्रयोगे तूपदशं गोमहिषायेति भवति । समाहारद्वन्द्वे समानलिङ्गवचनत्वादव्ययीभावस्यैवानुप्रयोग उपदशं गोमहिषमिति, इतरेतरयोगे तु बहुव्रीहेरेवानुप्रयोगः, बहुव्रीहे: समीपिप्रधानत्वात् , समानलिङ्गवचनत्वाच्च यथोपदशा गोमहिषा इति । अव्ययीभावे च समीपसमीपिनोरभेदविवक्षया सामानाधिकरण्यं विज्ञेयम् ॥ प्रथ. मया उक्तं प्रथमोक्तं प्राक् ॥ ' प्रत्ययग्रहणे तदन्तग्रहणमिति न्यायः प्रवर्तते । आसन्नदशाः 'आसन्नाहरे ति बहुव्रीहिः, अस्मिन् सूत्र आसन्नादूराधिकाध्यर्धा दिपूरणमिति प्रथमान्तं पदं तेन निर्दिष्टमत्रासन्नपदं तत्पूर्व निपततीत्यर्थः । सप्तगङ्गं — सङ्ख्या समाहार' इत्य. व्ययीभावः, प्रथमान्तं पदं सर्तयेति तन्निर्दिष्टं 'सप्ते'ति पदं तस्य