Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 427
________________ ३८८ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य अमव्ययीभावस्यातोऽपञ्चम्याः ॥ २॥ अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् , न तु पञ्चम्याः । उपकुम्भमस्ति, उपकुम्भं देहि । अव्ययीभावस्येति किम् ! प्रियोपकुम्भोऽयम् । अत इति किम् ! अधिस्त्रि । अपञ्चम्या इति किम् ! उपकुम्भात् ॥ वा तृतीयायाः ॥३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम्वा स्यात् । किं न उपकुम्भम् , किं न उपकुम्भेन । अव्ययीभावस्येति किम् ? प्रियोपपुल्लिङ्गस्तत्राम् नेत्याह-इमे नरा इति ॥ अम्, अव्ययीभावस्य, अतः षष्ठी, न पञ्चमी तस्याः। स्यादेरिति वर्तते । अत इति सम्बन्धे षष्ठी, अव्ययीभावस्य विशेषणात्तदन्तविधिः । कुम्भस्य समीपमुपकुम्भम् , विभक्तिसमीपेति सूत्रेणाव्ययीभावः । अनेन सूत्रेण प्रथमैकवचनस्य सेरमादेशः । उपकुम्भं देहीत्यत्र तु चतुर्थ्या अमादेशः । प्रियमुपकुम्भं यस्यासौ प्रियोपकुम्भः, अत्र सिविभक्तेरव्ययी. भावसमासानन्तरभावित्वेन नाव्ययीभावसमाससम्बन्धित्वमिति नाम् । अधिस्त्रि, त्रियमधि, स्त्रीषु अधीति वाऽधिस्त्रि, इकारान्ताव्ययीभावोऽयम् । ननूपकुम्भ सि इत्यत्र सेर्मविधानेनैवोपकुम्भमित्यादिरूपसिद्धौ किमर्थमम्विधानमिति चेदुच्यते, हे उपकुम्भ इत्यादिसम्बोधने अदेतः स्यमोरिति अमो लोपार्थम् , उपजरसमिति अरसादेशार्थश्चाम्विधानम् । नन्वत इति व्यर्थम् , अकारान्तादन्यत्रानतो लुबिति सेलोपेन यत्राकारान्तत्वं तत्रैवाम्प्राप्तः, उच्यते, अत्राद्हणाभावेऽनतो लुबित्यत्रानत इति पदं पर्युदासबोधकं न भवेत् , ततश्वातः स्वरस्य वर्जनमित्यन्यस्मादपि स्वरान्ताल्लुप् स्यात् , ततो यत्र व्यञ्जनान्तत्वं स्यात्तत्राप्यमव्ययीभावस्यातोऽपञ्चम्या इति कृते अमादेशः स्यादित्यग्रहणम् ॥ वा, तृतीयायाः अमव्ययीभावस्यात इति , सूत्रखण्डस्सम्बध्यते । किं नः उपकुम्भम् , अस्माकं कुम्भ समीपेन देशेन किं प्रयोजन ? न क्रिमपीत्यर्थः । प्रयोगसाधनं

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470