Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 428
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । ३८९ कुम्भेन ॥ सप्तम्या वा ॥ ४ ॥ अदन्तस्याव्ययीभावस्य सप्तम्या अम्वा स्यात् । उपकुम्भम्, उपकुम्भे निधेहि । अव्ययीभावस्येत्येव ! प्रियोपकुम्मे ॥ ऋद्धनदीवंश्यस्य ॥ ५ ॥ एतदन्तस्याव्ययी - भावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम्, उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ॥ अनतो लुप् ॥ ६ ॥ अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ! उपकुम्भात् । अव्ययीभावस्येत्येव ! प्रियोपवधुः || अव्ययस्य ॥ ७ ॥ अव्ययस्य स्यादेर्लुप् स्यात् । स्वः, प्रातः । अव्ययस्येति किम् ? अत्युच्चैसः ॥ ऐकायै ॥ ८ ॥ ऐकार्थ्य मैकपद्यं . स्पष्टम् । प्रियोपकुम्भेनेति बहुव्रीहिः ॥ सप्तम्याः, वा । पूर्ववदनुवर्तनम्, अन्यत्स्पष्टम् ॥ ऋद्धश्च नदी च वंश्यश्च तस्य । अमव्यभावस्याः सप्तम्या इति च वर्तते । अदन्ताव्ययीभावस्य विशेषणं ऋद्धनदीवंश्यस्येति । मगधानां समृद्धिः सुमगधं तस्मिन्निति ऋद्धस्योदाहरणम् | उन्मत्ता गङ्गा यस्मिन्देशे तस्मिन्नुन्मत्तगङ्गम्, क्लीबे इति ह्रस्वः, परतः स्त्रीपुंवदिति उन्मत्ताशब्दस्य ह्रस्वः, नदीभिर्नाम्नीत्यव्ययीभावः, इति नद्यन्तस्योदाहरणम् । एकविंशतिः भारद्वाजा वंश्या इति तस्मिन् अत्र वंश्येन पूर्वार्थे इत्यव्ययीभावः । भारद्वाजो गोत्रविशेषस्तस्मिन्नुत्पन्ना एकविंशतिर्ये पुरुषास्तेषां मध्ये वसतीत्यर्थः । नित्यार्थं वचनम् ॥ न अत् अनत्तस्य, लुपू । अव्ययी - भावस्य स्यादेरिति वर्तते । वध्वाः समीपमुपत्रधु, क्कीबे इति ह्रस्वः । स्पष्टमन्यत् ॥ अव्ययस्य । स्यादेर्लुबिति वर्तते 1 उच्चैरतिक्रान्ता ये ते इति प्रत्युदाहरणे अत्युच्चैस् शब्दाद्विहितस्य जसो न लुपू, अव्यय सम्बन्धिन एव स्यादेर्लुब्विधानेनात्र जसोऽव्ययपरत्वेऽपि नाव्ययाद्विहितत्वं किन्तु नाम्न एवेति न लुप् । अत एव लुब्विधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । एकोऽर्थो यस्यासावेकार्थ 1 I

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470