________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३८९
कुम्भेन ॥ सप्तम्या वा ॥ ४ ॥ अदन्तस्याव्ययीभावस्य सप्तम्या अम्वा स्यात् । उपकुम्भम्, उपकुम्भे निधेहि । अव्ययीभावस्येत्येव ! प्रियोपकुम्मे ॥ ऋद्धनदीवंश्यस्य ॥ ५ ॥ एतदन्तस्याव्ययी - भावस्यादन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम्, उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ॥ अनतो लुप् ॥ ६ ॥ अदन्तवर्जस्याव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ! उपकुम्भात् । अव्ययीभावस्येत्येव ! प्रियोपवधुः || अव्ययस्य ॥ ७ ॥ अव्ययस्य स्यादेर्लुप् स्यात् । स्वः, प्रातः । अव्ययस्येति किम् ? अत्युच्चैसः ॥ ऐकायै ॥ ८ ॥ ऐकार्थ्य मैकपद्यं . स्पष्टम् । प्रियोपकुम्भेनेति बहुव्रीहिः ॥ सप्तम्याः, वा । पूर्ववदनुवर्तनम्, अन्यत्स्पष्टम् ॥ ऋद्धश्च नदी च वंश्यश्च तस्य । अमव्यभावस्याः सप्तम्या इति च वर्तते । अदन्ताव्ययीभावस्य विशेषणं ऋद्धनदीवंश्यस्येति । मगधानां समृद्धिः सुमगधं तस्मिन्निति ऋद्धस्योदाहरणम् | उन्मत्ता गङ्गा यस्मिन्देशे तस्मिन्नुन्मत्तगङ्गम्, क्लीबे इति ह्रस्वः, परतः स्त्रीपुंवदिति उन्मत्ताशब्दस्य ह्रस्वः, नदीभिर्नाम्नीत्यव्ययीभावः, इति नद्यन्तस्योदाहरणम् । एकविंशतिः भारद्वाजा वंश्या इति तस्मिन् अत्र वंश्येन पूर्वार्थे इत्यव्ययीभावः । भारद्वाजो गोत्रविशेषस्तस्मिन्नुत्पन्ना एकविंशतिर्ये पुरुषास्तेषां मध्ये वसतीत्यर्थः । नित्यार्थं वचनम् ॥ न अत् अनत्तस्य, लुपू । अव्ययी - भावस्य स्यादेरिति वर्तते । वध्वाः समीपमुपत्रधु, क्कीबे इति ह्रस्वः । स्पष्टमन्यत् ॥ अव्ययस्य । स्यादेर्लुबिति वर्तते 1 उच्चैरतिक्रान्ता ये ते इति प्रत्युदाहरणे अत्युच्चैस् शब्दाद्विहितस्य जसो न लुपू, अव्यय सम्बन्धिन एव स्यादेर्लुब्विधानेनात्र जसोऽव्ययपरत्वेऽपि नाव्ययाद्विहितत्वं किन्तु नाम्न एवेति न लुप् । अत एव लुब्विधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । एकोऽर्थो यस्यासावेकार्थ
1
I