________________
३८८
सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य अमव्ययीभावस्यातोऽपञ्चम्याः ॥ २॥ अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात् , न तु पञ्चम्याः । उपकुम्भमस्ति, उपकुम्भं देहि । अव्ययीभावस्येति किम् ! प्रियोपकुम्भोऽयम् । अत इति किम् ! अधिस्त्रि । अपञ्चम्या इति किम् ! उपकुम्भात् ॥ वा तृतीयायाः ॥३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम्वा स्यात् । किं न उपकुम्भम् , किं न उपकुम्भेन । अव्ययीभावस्येति किम् ? प्रियोपपुल्लिङ्गस्तत्राम् नेत्याह-इमे नरा इति ॥ अम्, अव्ययीभावस्य, अतः षष्ठी, न पञ्चमी तस्याः। स्यादेरिति वर्तते । अत इति सम्बन्धे षष्ठी, अव्ययीभावस्य विशेषणात्तदन्तविधिः । कुम्भस्य समीपमुपकुम्भम् , विभक्तिसमीपेति सूत्रेणाव्ययीभावः । अनेन सूत्रेण प्रथमैकवचनस्य सेरमादेशः । उपकुम्भं देहीत्यत्र तु चतुर्थ्या अमादेशः । प्रियमुपकुम्भं यस्यासौ प्रियोपकुम्भः, अत्र सिविभक्तेरव्ययी. भावसमासानन्तरभावित्वेन नाव्ययीभावसमाससम्बन्धित्वमिति नाम् । अधिस्त्रि, त्रियमधि, स्त्रीषु अधीति वाऽधिस्त्रि, इकारान्ताव्ययीभावोऽयम् । ननूपकुम्भ सि इत्यत्र सेर्मविधानेनैवोपकुम्भमित्यादिरूपसिद्धौ किमर्थमम्विधानमिति चेदुच्यते, हे उपकुम्भ इत्यादिसम्बोधने अदेतः स्यमोरिति अमो लोपार्थम् , उपजरसमिति अरसादेशार्थश्चाम्विधानम् । नन्वत इति व्यर्थम् , अकारान्तादन्यत्रानतो लुबिति सेलोपेन यत्राकारान्तत्वं तत्रैवाम्प्राप्तः, उच्यते, अत्राद्हणाभावेऽनतो लुबित्यत्रानत इति पदं पर्युदासबोधकं न भवेत् , ततश्वातः स्वरस्य वर्जनमित्यन्यस्मादपि स्वरान्ताल्लुप् स्यात् , ततो यत्र व्यञ्जनान्तत्वं स्यात्तत्राप्यमव्ययीभावस्यातोऽपञ्चम्या इति कृते अमादेशः स्यादित्यग्रहणम् ॥ वा, तृतीयायाः अमव्ययीभावस्यात इति , सूत्रखण्डस्सम्बध्यते । किं नः उपकुम्भम् , अस्माकं कुम्भ समीपेन देशेन किं प्रयोजन ? न क्रिमपीत्यर्थः । प्रयोगसाधनं