________________
॥ अथ तृतीयाध्याये द्वितीयः पादः॥
परस्परान्योऽन्येतरेतरस्यां स्यादेोऽपुंसि ॥१॥ एषामपुंवृत्तीनां स्यादेरम्वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परं, अन्योऽन्यामन्योऽन्यं, इतरेतरामितरेतरं भोजयतः । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योऽन्यामन्योऽन्येन, इतरेतरामितरेतरेण भोज्यते । अपुंसीति किम् ! इमे नराः परस्परं भोजयन्ति ।
परस्परश्चान्योऽन्यश्चेतरेतरश्चेति समाहाराषष्ठी, अन्योन्येतरे. तरशब्दयोः द्वन्द्वं विधाय वा परस्परशब्देन द्वन्द्वस्तेनान्योऽन्यशब्दस्य स्वराघदन्तत्वादल्पस्वरत्वाच्च परस्परशब्दात्पूर्व प्रयोग इत्याशङ्का न सम्भवति; आम् , सिरादिर्यस्य तस्य, वा, न पुमान् तस्मिन् । परस्परादयत्रयोऽपि स्वभावत एकत्ववचनाः पुंस्त्ववृत्तयः क्रियाव्यति. हारविषयाः । परस्याः परस्याः विनिमयः परस्परः, अस्मादेव निर्देशात्परान्येतरशब्दानां सर्वनाम्नां द्विवचनादि निपात्यते । इमे सख्याविति, परस्परो भुङ्क्ते, भुञ्जानं तं सख्यौ कुले वा प्रयुञ्जाते, गतिबोधेति सूत्रेणाणिकर्तुः परस्परस्य कर्मत्वं अनेन आम्, पक्षे परस्परमेवमग्रेऽपि । यदा करणे सहार्थे वा तृतीया तदा भोज्यते इति रूपं भवति तदर्शयत्याभिः सखीभिरिति । अत्र करणे सहार्थे वा यदा तृतीया तदेको णिग्, यथा भुङ्क्ते जनस्तं भुञ्जानं सख्यः प्रयुञ्जते इति णिग्, केन सह केन कृत्वा वेति शङ्कायां परस्परेण। यदा तु कर्तरि तृतीया तदा णिग् द्वयं यथा भुङ्क्ते जनस्तं भुञ्जानं परस्परः प्रयुङ्क्ते इत्येको णिग, तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते इति द्वितीयो णिग्, ततः कर्तरि तृतीया, अधिकं बृहद्वृत्तौ। यत्र तु