SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ રૂ૮૬ सिद्धहेमलघुवृत्ती [ तृतीयाध्यायस्य शङ्खदुन्दुभिवीणाः । द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ मासवर्णभ्रात्राऽनुपूर्वम् ॥ १६१।। एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् फाल्गु. नचैत्रौ, ब्राह्मणक्षत्रियौ, ब्राह्मणक्षत्रियवैश्याः, बलदेववासुदेवौ ॥ भर्तु तुल्यस्वरम् ॥ १६३ ।। नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्व प्राक् स्यात् । अश्विनीभरणीकृत्तिकाः, हेमन्तशिशिरवसन्ताः, तुल्यस्वरमिति किम् ! आर्द्रामृगशिरसी, ग्रीष्मवसन्तौ ॥ सङ्ख्या समासे ॥१६३॥ समासमात्रे सङ्ख्यावाच्यनुपूर्व प्राक् स्यात् । द्वित्राः, द्विशती, एकादश !! इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य समास विषयः प्रथमः पादः समाप्तः ॥ ३ १ ॥ कामचार इति प्रदर्शनार्थमेकप्रहणम् , तेन शङ्खदुन्दुभि वीणाः, वीणादुन्दुभिशङ्खाः,शङ्खवीणादुन्दुभयः। विस्पष्टं पटुर्विस्पष्टपटुर्नात्र पटुशब्द. स्य पूर्वनिपातो द्वन्द्वाभावात् ॥ मासश्च वर्णश्च भ्राता च मासवर्णभ्रात, पूर्वस्यानतिक्रमणानुपूर्वी ॥ अनुग्रहणादेकमिति निवृत्तम् । द्वन्द्व इत्यभिसम्बध्यते । फाल्गुनश्च चैत्रश्च फाल्गुनचैत्रौ । ब्राह्मणश्च क्षत्रियश्च वैश्यश्च । बलदेवश्च वासुदेवश्च ।। भश्च ऋतुश्च भर्त, तुल्याः स्वरा यत्र तत् तुल्यस्वरम् ।। द्वन्द्वे अनुपूर्वमित्यनुवर्तेते । अश्विनी च भरणो च कृत्तिका च, अत्र नक्षत्रवाचिनः तुल्यस्वराः सन्ति । नक्षत्राणामृतूनाश्चाऽऽनूपूयं लोकप्रसिद्ध्यैव ग्राह्यम् ॥ सङ्ख्या, समासे ॥ आनुपूर्वमित्यनुवर्तते । सर्वा सङ्ख्या प्रथमोक्तेत्यनियम आनुपूर्व्याः सङ्ख्यायाः पूर्वनिपातार्थ वचनम् । समास इति सामान्यतयोक्तेः सर्वत्र समासेऽयं भवति । बहुव्रीहौ द्वौ वा त्रयो वा द्वित्राः । द्विगौ, द्वे शते समाहृते इति द्विशती । द्वन्द्वे, एकश्च दश चैकादश । य एवाल्पः स एव पूर्वः ॥ इति द्वितीयाध्यायस्य प्रथमपादे समासप्रकरणात्मकः ___ अवचूरिपरिष्कारः समाप्तः ।। -- -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy