SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवधूरिपरिष्कारसहितायाम् । ३८५ 2 एते कर्म्मधारये प्राग्वा स्युः । कडारजैमिनिः, जैमिनिकडारः । काणद्रोणः, द्रोणकाणः ॥ धर्मार्थादिषु द्वन्द्वे ॥ १५० ॥ एषु द्वन्द्वे - ष्वप्राप्तप्राक्तुं वा प्राक् स्यात् । धर्म्मार्थी, अर्थधर्मौ । शब्दार्थौ, अर्थशब्दौ ॥ लध्वक्षराऽसखीदुत्स्वराद्यदल्पस्वरार्यमेकम् ।। १६० ।। लध्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्य - वाचि चैकं द्वन्द्वे प्राक् स्यात् । करशीर्षम्, अग्नीषोमो, वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्रशस्त्रम्, प्लक्षन्यग्रोधौ, श्रद्धामेधे । लध्वादिति किम् ? कुक्कुटमयूरौ, मयूरकुक्कुटौ । एकमिति किम् ? अर्थश्च धर्मार्थी, शब्दश्व अर्थश्च शब्दार्थौ अत्र स्वराद्यदन्तत्वादथंशब्दस्य पूर्वनिपातः प्राप्तः, धर्मशब्दस्य शब्दशब्दस्य च पूर्वनिपातोSप्राप्त:, इति तस्य वा पूर्वनिपातः ॥ लघूनि अक्षराणि यत्र तत् स्वरादि च तद् अच स्वराद्यत्, अल्पे स्वरा यत्र, लध्वक्षरच असखीदुच्च स्वराद्यच्च अल्पस्वरश्च अर्घ्यञ्च, एकम् ॥ पृथग्योगाद्वेति निवृत्तम् | द्वन्द्व इत्यनुवर्तते । करश्च शीर्षञ्च करशीर्षम्, 'प्राणितूर्येत्येकवद्भावः, अनेन लध्वक्षरत्वाच्छरशब्दस्य पूर्वनिपातः । अमिश्च सोमच, 'ईः षोमवरुणेऽग्नेरिति दीर्घत्वं षत्वञ्च, अनेनाग्निशब्दस्य पूर्वनिपातः । वायुश्च तोयश्च वायुतोयम्, उकारान्तस्य पूर्वनिपातः । स्तुतश्च सखा च । अस्त्रञ्च शस्त्रञ्च अस्त्रशस्त्रम्, अस्त्रशब्देन सामान्यधनुरुच्यते, शस्त्रशब्देन च सामान्यमायुधम्, अतः ‘समानामर्थेने’ति नैकशेषः, अप्राणिजातित्वादेकवद्भावः, खराद्यदन्तत्वादस्त्रशब्दस्य प्राक्प्रयोगः । लक्षन्यग्रोधौ, अल्पस्वरत्वात्पृक्षशब्दस्य प्राक्प्रयोगः । श्रद्धा च मेधा च श्रद्धामेघे, अर्थप्राहिणी श्रद्धा, शब्दप्राहिणी मेधा, इष्टसिद्धेः श्रद्धामूलस्वाच्छ्रद्धाया अर्घ्यत्वेन पूर्वनिपातः । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथाप्राप्तं पूर्वनिपातः, शेषाणान्तु । ४९
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy