SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३८४ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य हीनदुःखा ॥ आहिताग्न्यादिषु ॥ १५३ ॥ एषु बहुव्रीहिषु कान्तं वा प्राक् स्यात् । आहितामिः, अग्न्याहितः । जातदन्तः, दन्तजातः । प्रहरणात् ।। १५४ ॥ प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतासिः, अस्युद्यतः ॥ न सप्तमीन्द्वादिभ्यश्च ।। १५५ ॥ इन्द्वादेः प्रहरणार्थाच्च प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः, पद्मनाभः, असिपाणिः ॥ गडादिभ्यः ॥ १५६ ।। गडादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् । कण्ठेगड्डः, गडकण्ठः । मध्येगुरुः, गुरुमध्यः ॥ प्रियः ॥ १५७ ॥ अयं बहुव्रीहौ प्राक् वा स्यात् । प्रियगुडः, गुडप्रियः॥ कडाराः कर्मधारये ॥१५८॥ ऽपि । शाङ्गरं जग्धमनया शाङ्गरजग्धी, 'अनाच्छादनादि'ति डीः, जग्धशाङ्गरा, कान्तस्य जग्धस्य वा पूर्वनिपातः । मासो जातोऽस्या मासजाता, जातमासा वा गौः । एवमप्रेऽपि ॥ आहितानिः आदि. र्येषान्तेषु । आहितोऽग्निर्येन, एवमग्रे । बहुवचनमाकृतिगणार्थम् ।। प्रहरणाद ॥ उद्यतोऽसिरनेन, उद्यतासिः ॥ अस्यादीनां जातिशब्द. त्वेन 'जातिकाले'त्यनेन पूर्वनिपातसिद्धावपि व्यक्तिविवक्षायां तत्सिद्ध्यर्थमिदम् ॥ न सप्तमी, इन्दुरादिर्येषान्तेभ्यः ।। नअपादानादनुवृत्तमपि नवेति न सम्बध्यते । इन्दुमौलौ यस्य स इन्दुमौलिः, अत्र मौलिशब्दस्य 'विशेषणसर्वादी'ति पूर्वप्रयोगप्राप्तेऽनेन निषेधः । पञ नाभौ यस्य, असिः पाणौ यस्य ॥ गड्ढादिभ्यः ॥ सप्तमीत्यनुवर्तते । कण्ठे गडुरस्येत्येवं सर्वत्र विग्रहः ॥ प्रियः ॥ प्रियो गुडो यस्य ।। कडाराः कर्मधारये ॥ कडारा इति बहुवचन निर्देशात्कडारादयो ग्राह्याः । कडारश्चासौ जैमिनिश्च । कडारः पिङ्गलः, जैमिनिःऋषिः, काणश्चासौ द्रोणश्च स काण ऋषिः । कडारादीनां गुणवचनत्वाद्रव्यशब्दान्नित्यं पूर्वनिपाते प्राप्ते, पक्षे परनिपातार्थ वचनम् । यदा तु द्वावपि गुणशब्दौ तदा पर्यायेण ॥ धर्मार्थादिषु द्वन्द्वे ॥ धर्मश्च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy