Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
રૂ૮૬
सिद्धहेमलघुवृत्ती [ तृतीयाध्यायस्य शङ्खदुन्दुभिवीणाः । द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ मासवर्णभ्रात्राऽनुपूर्वम् ॥ १६१।। एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् फाल्गु. नचैत्रौ, ब्राह्मणक्षत्रियौ, ब्राह्मणक्षत्रियवैश्याः, बलदेववासुदेवौ ॥ भर्तु तुल्यस्वरम् ॥ १६३ ।। नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्व प्राक् स्यात् । अश्विनीभरणीकृत्तिकाः, हेमन्तशिशिरवसन्ताः, तुल्यस्वरमिति किम् ! आर्द्रामृगशिरसी, ग्रीष्मवसन्तौ ॥ सङ्ख्या समासे ॥१६३॥ समासमात्रे सङ्ख्यावाच्यनुपूर्व प्राक् स्यात् । द्वित्राः, द्विशती, एकादश !! इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्ध हेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य समास
विषयः प्रथमः पादः समाप्तः ॥ ३ १ ॥ कामचार इति प्रदर्शनार्थमेकप्रहणम् , तेन शङ्खदुन्दुभि वीणाः, वीणादुन्दुभिशङ्खाः,शङ्खवीणादुन्दुभयः। विस्पष्टं पटुर्विस्पष्टपटुर्नात्र पटुशब्द. स्य पूर्वनिपातो द्वन्द्वाभावात् ॥ मासश्च वर्णश्च भ्राता च मासवर्णभ्रात, पूर्वस्यानतिक्रमणानुपूर्वी ॥ अनुग्रहणादेकमिति निवृत्तम् । द्वन्द्व इत्यभिसम्बध्यते । फाल्गुनश्च चैत्रश्च फाल्गुनचैत्रौ । ब्राह्मणश्च क्षत्रियश्च वैश्यश्च । बलदेवश्च वासुदेवश्च ।। भश्च ऋतुश्च भर्त, तुल्याः स्वरा यत्र तत् तुल्यस्वरम् ।। द्वन्द्वे अनुपूर्वमित्यनुवर्तेते । अश्विनी च भरणो च कृत्तिका च, अत्र नक्षत्रवाचिनः तुल्यस्वराः सन्ति । नक्षत्राणामृतूनाश्चाऽऽनूपूयं लोकप्रसिद्ध्यैव ग्राह्यम् ॥ सङ्ख्या, समासे ॥ आनुपूर्वमित्यनुवर्तते । सर्वा सङ्ख्या प्रथमोक्तेत्यनियम आनुपूर्व्याः सङ्ख्यायाः पूर्वनिपातार्थ वचनम् । समास इति सामान्यतयोक्तेः सर्वत्र समासेऽयं भवति । बहुव्रीहौ द्वौ वा त्रयो वा द्वित्राः । द्विगौ, द्वे शते समाहृते इति द्विशती । द्वन्द्वे, एकश्च दश चैकादश । य एवाल्पः स एव पूर्वः ॥ इति द्वितीयाध्यायस्य प्रथमपादे समासप्रकरणात्मकः ___ अवचूरिपरिष्कारः समाप्तः ।। --
-

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470