Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
३८४ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य हीनदुःखा ॥ आहिताग्न्यादिषु ॥ १५३ ॥ एषु बहुव्रीहिषु कान्तं वा प्राक् स्यात् । आहितामिः, अग्न्याहितः । जातदन्तः, दन्तजातः । प्रहरणात् ।। १५४ ॥ प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतासिः, अस्युद्यतः ॥ न सप्तमीन्द्वादिभ्यश्च ।। १५५ ॥ इन्द्वादेः प्रहरणार्थाच्च प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः, पद्मनाभः, असिपाणिः ॥ गडादिभ्यः ॥ १५६ ।। गडादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् । कण्ठेगड्डः, गडकण्ठः । मध्येगुरुः, गुरुमध्यः ॥ प्रियः ॥ १५७ ॥ अयं बहुव्रीहौ प्राक् वा स्यात् । प्रियगुडः, गुडप्रियः॥ कडाराः कर्मधारये ॥१५८॥ ऽपि । शाङ्गरं जग्धमनया शाङ्गरजग्धी, 'अनाच्छादनादि'ति डीः, जग्धशाङ्गरा, कान्तस्य जग्धस्य वा पूर्वनिपातः । मासो जातोऽस्या मासजाता, जातमासा वा गौः । एवमप्रेऽपि ॥ आहितानिः आदि. र्येषान्तेषु । आहितोऽग्निर्येन, एवमग्रे । बहुवचनमाकृतिगणार्थम् ।। प्रहरणाद ॥ उद्यतोऽसिरनेन, उद्यतासिः ॥ अस्यादीनां जातिशब्द. त्वेन 'जातिकाले'त्यनेन पूर्वनिपातसिद्धावपि व्यक्तिविवक्षायां तत्सिद्ध्यर्थमिदम् ॥ न सप्तमी, इन्दुरादिर्येषान्तेभ्यः ।। नअपादानादनुवृत्तमपि नवेति न सम्बध्यते । इन्दुमौलौ यस्य स इन्दुमौलिः, अत्र मौलिशब्दस्य 'विशेषणसर्वादी'ति पूर्वप्रयोगप्राप्तेऽनेन निषेधः । पञ नाभौ यस्य, असिः पाणौ यस्य ॥ गड्ढादिभ्यः ॥ सप्तमीत्यनुवर्तते । कण्ठे गडुरस्येत्येवं सर्वत्र विग्रहः ॥ प्रियः ॥ प्रियो गुडो यस्य ।। कडाराः कर्मधारये ॥ कडारा इति बहुवचन निर्देशात्कडारादयो ग्राह्याः । कडारश्चासौ जैमिनिश्च । कडारः पिङ्गलः, जैमिनिःऋषिः, काणश्चासौ द्रोणश्च स काण ऋषिः । कडारादीनां गुणवचनत्वाद्रव्यशब्दान्नित्यं पूर्वनिपाते प्राप्ते, पक्षे परनिपातार्थ वचनम् । यदा तु द्वावपि गुणशब्दौ तदा पर्यायेण ॥ धर्मार्थादिषु द्वन्द्वे ॥ धर्मश्च

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470