Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 421
________________ ३८२ सिद्धहेमलघुवृत्तौ । [ तृतीयाध्यायस्य सप्पिर्मधुनी ॥ सङ्ख्याने ॥ १४६ ॥ वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थो न स्यात् । दश गोमहिषाः, बहवः पाणिपादाः ॥ वान्तिके ॥ १४७ ॥ वर्तिपदार्थानां सङ्ग्यानस्य समीपे गम्ये द्वन्द्व एकार्थो वा स्यात् । उपदशं गोमहिषम् , उपदशा गोमहिषाः ॥ प्रथ. मोक्तं प्राक् ॥ १४८ ।। अत्र समासप्रकरणे प्रथमान्तेन यन्निर्दिष्टं दधिपयसी, · पशुव्यञ्जनानामिति विकल्पे प्राप्त प्रतिषेधोऽयम् । सर्पिश्च मधु च सर्पिर्मधुनी ॥ सङ्ख्यायते येन तत्सझ्यानं तस्मिन् , सख्याने ॥ इयत्तापरिच्छेदः सख्यानम् । वर्तिपदार्थानामिति, समासघटकपूर्वोत्तरपदार्थानामित्यर्थः । गावश्च महिषाश्च गोमहिषाः। पाणयश्च पादाश्च पाणिपादाः, 'प्राणितूर्याङ्गाणामित्यस्यापवादः। 'बहुगणं भेदे' इति बहुशब्दो भेदवृत्ती स्यात्, न तु वैपुल्ये सङ्के वा, भेदः पृथग्रूपता, यथा बहवः पुरुषाः, वैपुल्ये च न स्याद् यथा बहुधान्यमित्यादि ॥ वा अन्तिके । उपगता दश येषां यस्य वा उपदशम्, नव एकादश वा गोमहिषसमूह इत्यर्थः । द्वन्द्वार्थस्यैकत्वात्तदनुप्रयोगस्यापि बहुव्रीहेरेकवचनान्तत्वम् । दशानां समीपमुपदशमि. त्यव्ययीभावस्यानुप्रयोगे तूपदशं गोमहिषायेति भवति । समाहारद्वन्द्वे समानलिङ्गवचनत्वादव्ययीभावस्यैवानुप्रयोग उपदशं गोमहिषमिति, इतरेतरयोगे तु बहुव्रीहेरेवानुप्रयोगः, बहुव्रीहे: समीपिप्रधानत्वात् , समानलिङ्गवचनत्वाच्च यथोपदशा गोमहिषा इति । अव्ययीभावे च समीपसमीपिनोरभेदविवक्षया सामानाधिकरण्यं विज्ञेयम् ॥ प्रथ. मया उक्तं प्रथमोक्तं प्राक् ॥ ' प्रत्ययग्रहणे तदन्तग्रहणमिति न्यायः प्रवर्तते । आसन्नदशाः 'आसन्नाहरे ति बहुव्रीहिः, अस्मिन् सूत्र आसन्नादूराधिकाध्यर्धा दिपूरणमिति प्रथमान्तं पदं तेन निर्दिष्टमत्रासन्नपदं तत्पूर्व निपततीत्यर्थः । सप्तगङ्गं — सङ्ख्या समाहार' इत्य. व्ययीभावः, प्रथमान्तं पदं सर्तयेति तन्निर्दिष्टं 'सप्ते'ति पदं तस्य

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470