Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
३८०
सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य अप्रसिद्धं कथयन्ति ॥ अक्लीबेऽध्वर्युक्रतोः ।। १३९ ॥ अध्वर्युः यजुर्वेदः, तद्विहितक्रतुवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् , न चेदेते क्लीववृत्तयः । अश्विमेधम् । अक्लीब इति किम् ? गवामयनादित्यानामयने । अध्वविति किम् ! इषुवज्रौ । क्रतोरिति किम् ! दर्शपौर्णमासौ ॥ निकटपाठस्य ॥ १४० ॥ निकटः पाठो येषामध्येतॄणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । पदकक्रमकम् ॥ नित्यवरस्य ॥१४१॥ नित्यं जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात्। अहिनकुलम् । नित्यवरस्येति किम् ? देवासुराः, देवासुरम् ॥ नदी. देशपुरा विलिङ्गानाम् ॥ १४२ ॥ एषां विविधलिङ्गानां स्वैर्द्वन्द्व प्रत्यष्ठायि कठकालापाभ्याम् , अत्र चरणस्य कर्तृत्वेन सम्बन्धे सत्यपि स कर्ता न मुख्यः किन्तु गौणः, भावस्यैव प्राधान्यात् ।। न क्लीवस्तस्मिन् , अध्वर्योः क्रतुस्तस्य ॥ अर्कश्च अश्वमेधश्च अर्का. श्वमेधम् । गवामयनञ्चाऽऽदित्यानामयनश्च गवामयनादित्यानामयने । इषुध वनश्चेषुवनौ, सामवेदे विहितौ ऋतू । दर्शश्च पौर्णमासश्च दर्शपौर्णमासौ । अमावास्यायां यो यज्ञः क्रियते स दर्शः, पूर्णमास्यां या यज्ञः क्रियते स पौर्णमासः। इमौ न क्रतू, ससोमके यागे क्रतुशब्दस्य रूढत्वात् ॥ निकटपाठस्य ॥ पदान्यधीते पदकः, एवं क्रमकः । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टो निकटपाठः । पदकश्च क्रमकश्च पदकक्रमकम् । नित्यमनिमित्तम् , जातिनिबद्धं वैरं यस्य तस्य । अहिनकुलमेतयोनित्यविरोधः । देवा. श्वाऽसुराश्च देवासुरम् , नैतेषां निर्निमित्तं वैरै किन्तु राज्यापहारादि. कृतम् । पशुविकल्पः पक्षिविकल्पश्चानेन परत्वाद्बाध्यते । महाजोरभ्रमित्यादौ पशुद्वन्द्वविकल्पस्य सावकाशत्वात् , मार्जारमूषकं ब्राह्मणश्रमणमित्यादावस्य सावकाशत्वात् , अश्वमहिषं काकोलूकमित्यादौ तूभयप्राप्तौ परत्वादयमेव भवति ॥ नदी च देशश्च पूश्च तासाम ,

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470