Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 417
________________ ३७८ . सिडहेमलघुवृत्तौ। [ तृतीयाध्यायस्य नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ॥ फलस्य जातौ ॥१३॥ फलवाचिनां बह्वर्थानां जातौ स्वैर्द्वन्द्व एकार्थो नित्यं स्यात् । बदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ॥ अप्रा. णिपश्चादेः ॥ १३६ ॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । आराशस्ति । जातावित्येव ! सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ! ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम् । गोमहिषौ गोमहिषम् । प्लक्षन्यग्रोधौ, प्लक्षन्यग्रोधम् । अश्वरथौ, अश्वरथम् । बदरामलके, बदरामलकम् ।। प्राणितूर्याङ्गाणाम् ॥ १३७ ॥ प्राणितूर्ययोरगार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्णनासिकम् , मार्दनिकपाणविकम् । स्वैरित्येव ! व्यक्तिपरत्वेऽत्र प्रयोगः ॥ प्राणा विद्यन्ते येषां ते प्राणिनः, पशुरादिर्येषां पश्वादयः, प्राणिनश्च पश्वादयश्च, न प्राणिपश्वादिस्तस्य । जाताविति वर्तते । बहुत्व इति निवृत्तम् , अनेनैव सूत्रेण बदरामलकमित्यादिरूपसिद्धौ फलस्य जाताविति पृथक् सूत्रणात् । अत्र नमः पर्युदासवाचित्वेन 'पर्युदासः सहग्याही प्रसज्यस्तु निषेधकृत्। इत्य. भियुक्तोक्त्या प्राणिभिन्नप्राणिसदृशस्यैव ग्रहणाव्यस्य लाभस्तत्र जातेर्विशेषणत्वम् । तथा च प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्चान्ये ये द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानामिति भावः । एकवद्भावाल्लीबत्वम्, इस्वत्वञ्च । सह्यविन्ध्याविति, सह्यश्च विन्ध्यश्च पर्वतविशेषवाचिनौ, नैतौ जातिवाचिनौ । ब्राह्मणक्षत्रियविशुद्रा इति, अत्र प्राणिवर्जनाद् ब्राह्मणादीनाञ्च प्राणित्वादयं नित्यो विधिर्न भवति। इतरेतरद्वन्द्वः । ब्राह्मणक्षत्रियविशुद्रम् , समाहारद्वन्द्वः। गोम. हिषम् ‘पशुव्यञ्जनानाम् ॥ प्राणी च तूर्यश्च प्राणितूर्ययोरङ्गानि तेषां । प्राण्यङ्गानां प्राण्यङ्गैः सह, तूर्याङ्गाणां तूर्याङ्गैः सह यो द्वन्द्वः स एकवद्भवति । कर्णौ च नासिका च कर्णनासिकमिति प्राण्यङ्गस्य । मृदङ्गवादनं.

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470