Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 362
________________ प्रथमपारः ] अवत्रिपरिष्कारसहितायाम् । ३२३ द्विदशाः, द्वित्राः । सस्येति किम् ! गावो वा दश वा । सङ्ख्ययेति किम् ! दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ॥ आसन्नाऽदूराधिकाऽध्यर्दा दिपूरणं द्वितीयाद्यन्यार्थे ॥ २० ॥ आसन्नादि अर्धपूर्वपदश्च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्नैकार्ये समासः स्यात् , द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्ख्येये वाच्ये, स च बहुव्रीहिः। आसन्नदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः त्रयो वा द्वित्राः, वाऽर्थेऽयं बहुव्रीहिः, वार्थश्च विकल्पः संशयो वा, निर्णये सति विकल्पः, अन्यथा संशयः । संदेहविषयद्वित्वत्रित्ववन्त इति बोधः, त्रित्वेनाऽपि सन्देहविषयत्वाद्वहुवचनम् । विकस्पार्थत्वे वृत्तौ कार्ये विकल्पो बोध्यः, न तु शब्दावोघे, अतः शब्दानियमेन बहूनामुपस्थितेर्नित्यबहुवचनान्तता, अत्रापि डप्रत्ययः। द्विविंशतिर्गवामिति, अत्र सङ्ख्यार्थे विंशतिशब्दो न तु सद्ध्येये, आदशतः सङ्ख्याः सत्येये वर्तन्ते न तु सङ्ख्यायाम् , विंशत्याद्याः सङ्ख्यास्तु सद्ध्येयसङ्ख्ययोर्वर्तन्ते, यद्वा तु सद्ध्येये विंशतिशब्दस्तदा भवयेव समासः । सङ्घयेये सत्ययेत्युक्त्वा 'आदशभ्यः सङ्ख्या सद्ध्येये वर्तते न सङ्ख्याने' दशशब्दस्य प्रयोगावधिसङ्ख्या सहयेये वर्तते न सयान इत्यर्थको न्याय: सूच्यते । दशनशब्दस्य प्रयोगोऽष्टादशसध्यावधि भवति । एतन्न्यायाभावे हीयं सत्यासत्येयव. तिनी नेयमिति ज्ञानाऽसम्भवेन सङ्ख्यावृत्तिशब्दपरिहारेण सहयेय. वृत्तिसत्यया सह समासः कथं विज्ञायतेति ॥ अर्द्ध आदिर्यस्य, अर्द्धादिश्चासौ पूरणश्च, अधिकमद्ध यस्यासौ अध्यर्द्धः, आसन्नश्चादूरश्चाधिकश्चाध्यर्द्धश्वार्द्धादिपूरणश्च तत् , द्वितीयाऽऽदियस्य तद्, द्विती. यादि च तदन्यच, द्वितीयाद्यन्यस्यार्थस्तस्मिन् ॥ सङ्ख्येये सङ्ख्यया बहुव्रीहिरित्यनुवर्तन्ते । आसन्ना दश दशत्वं येषां येभ्यो वा ते, येषां येभ्य इति द्वितीयान्तादन्यं पदं सहयेयरूपम् । 'आदशभ्य' इति

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470